इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ 6.116.1 ॥
ददर्श मृजया हीनां सातङ्कामिव रोहिणीम्।
वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ॥ 6.116.2 ॥
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥ 6.116.3 ॥
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम्।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ॥ 6.116.4 ॥
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ 6.116.5 ॥
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः।
विभीषणसहायश्च हरीणां सहितो बलैः ॥ 6.116.6 ॥
कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः ॥ 6.116.7 ॥
विभीषणसहायेन रामेण हरिभिः सह।
निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ 6.116.8 ॥
पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः।
अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ॥ 6.116.9 ॥
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये।
दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥ 6.116.10 ॥
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा।
रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥ 6.116.11 ॥
मया ह्यलब्धनिद्रेण दृढेन तव निर्जये।
प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥ 6.116.12 ॥
सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये।
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ 6.116.13 ॥
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे।
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ 6.116.14 ॥
एवमुक्ता समुत्पत्य सीता शशिनिभानना।
प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ॥ 6.116.15 ॥
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्।
किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ॥ 6.116.16 ॥
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता।
अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ॥ 6.116.17 ॥
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्।
प्रहर्षवशमापन्ना निर्वाक्याऽस्मि क्षणान्तरम् ॥ 6.116.18 ॥
न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम।
मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् ॥ 6.116.19 ॥
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर।
सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ॥ 6.116.20 ॥
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च।
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥ 6.116.21 ॥
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः।
गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ 6.116.22 ॥
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि।
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥ 6.116.23 ॥
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च।
रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ 6.116.24 ॥
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ 6.116.25 ॥
तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा।
ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ 6.116.26 ॥
अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम्।
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ 6.116.27 ॥
श्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः।
बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥ 6.116.28 ॥
तेजः क्षमाधृतिर्धैर्यं विनीतत्वं न संशयः।
एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ 6.116.29 ॥
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ 6.116.30 ॥
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥ 6.116.31 ॥
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ॥ 6.116.32 ॥
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः।
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ॥ 6.116.33 ॥
मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने।
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ 6.116.34 ॥
घातैर्जानुप्रहारैश्च दशनानां च पातनैः।
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ 6.116.35 ॥
नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः।
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ 6.116.36 ॥
एवम्प्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि।
हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥ 6.116.37 ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा।
उवाच धर्मसहितं हनुमन्तं यशस्विनी ॥ 6.116.38 ॥
राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया।
विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥ 6.116.39 ॥
भाग्यवैषम्ययोगेन पुरादुश्चरितेन च।
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥ 6.116.40 ॥
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्।
दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ 6.116.41 ॥
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्।
हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ 6.116.42 ॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः।
ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ॥ 6.116.43 ॥
न परः पापमादत्ते परेषां पापकर्मणाम्।
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ 6.116.44 ॥
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम।
कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥ 6.116.45 ॥
लोकहिंसाविहाराणां रक्षसां कामरूपिणाम्।
कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ 6.116.46 ॥
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः।
प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥ 6.116.47 ॥
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी।
प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥ 6.116.48 ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा।
अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥ 6.116.49 ॥
तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः।
हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ 6.116.50 ॥
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्।
स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ 6.116.51 ॥
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्।
आजगाम महावेगो हनुमान् यत्र राघवः ॥ 6.116.52 ॥