ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः।
जग्मुः स्वैस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ 6.115.1 ॥
रावणस्य वधं घोरं राघवस्य पराक्रमम्।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥ 6.115.2 ॥
[पतिव्रतात्वं सीताया हनूमति पराक्रमम्।] कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥ 6.115.3 ॥
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्।
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥ 6.115.4 ॥
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः।
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥ 6.115.5 ॥
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे।
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥ 6.115.6 ॥
परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः।
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ॥ 6.115.7 ॥
अब्रवीच्च तदा रामः समीपपरिवर्तिनम्।
सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ॥ 6.115.8 ॥
विभीषणमिमं सौम्य लङ्कायामभिषेचय।
अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥ 6.115.9 ॥
एष मे परमः कामो यदीमं रावणानुजम्।
लङ्कायां सौम्य पश्येयमभिषिक्तं विबीषणम् ॥ 6.115.10 ॥
एवमुक्तस्तु सौमित्री राघवेण महात्मना।
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥ 6.115.11 ॥
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्।
आदिदेश महासत्त्वान् समुद्रसलिलानये ॥ 6.115.12 ॥
इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः।
आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ॥ 6.115.13 ॥
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने।
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥ 6.115.14 ॥
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम्।
अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् ॥ 6.115.15 ॥
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः।
दृष्ट्वाऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ 6.115.16 ॥
स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः।
प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ॥ 6.115.17 ॥
अक्षतान् मोदकान् लाजान् दिव्याः सुमनसस्तदा।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥ 6.115.18 ॥
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ 6.115.19 ॥
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्।
प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया ॥ 6.115.20 ॥
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम्।
अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ॥ 6.115.21 ॥
अनुमान्यं महाराजमिमं सौम्य विभीषणम् ॥ 6.115.22 ॥
गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि।
प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥ 6.115.23 ॥
वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम्।
आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ॥ 6.115.24 ॥
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर।
प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥ 6.115.25 ॥