तासां विलपमानानां तथा राक्षसयोषिताम्।
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ 6.114.1 ॥
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा।
पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥ 6.114.2 ॥
ननु नाम महाभाग तव वैश्रवणानुज।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥ 6.114.3 ॥
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ॥ 6.114.4 ॥
स त्वं मानुषमात्रेण रामेण युधि निर्जितः।
न व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ॥ 6.114.5 ॥
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्।
अविषह्यं जघान त्वां मानुषो वनगोचरः ॥ 6.114.6 ॥
मानुषाणामविषये चरतः कामरूपिणः।
विनाशस्तव रामेण संयुगे नोपपद्यते ॥ 6.114.7 ॥
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे।
सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ 6.114.8 ॥
यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः।
खरस्तव हतो भ्राता तदेवासौ न मानुषः ॥ 6.114.9 ॥
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि।
प्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता वयम् ॥ 6.114.10 ॥
यदैव वानरैर्घोरैर्बद्धः सेतुर्महार्णवे।
तदैव हृदयेनाहं शङ्के रामममानुषम् ॥ 6.114.11 ॥
अथवा रामरूपेण कृतान्तः स्वयमागतः।
मायां तव विनाशाय विधायाप्रतितर्किताम् ॥ 6.114.12 ॥
अथवा वासवेन त्वं धर्षितोऽसि महाबल।
वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥ 6.114.13 ॥
व्यक्तमेष महायोगी परमात्मा सनातनः।
अनादिमध्यनिधनो महतः परमो महान् ॥ 6.114.14 ॥
तमसः परमो धाता शङ्खचक्रगदाधरः।
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ 6.114.15 ॥
मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः।
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ 6.114.16 ॥
सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया।
सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥ 6.114.17 ॥
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया।
स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ 6.114.18 ॥
क्रियतामविरोधश्च राघवेणेति यन्मया।
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ 6.114.19 ॥
अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव।
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ 6.114.20 ॥
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते।
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ 6.114.21 ॥
वसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम्।
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ 6.114.22 ॥
अप्राप्य चैव तं कामं मैथिलीसङ्कमे कृतम्।
पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥ 6.114.23 ॥
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्।
देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ 6.114.24 ॥
अवश्यमेव लभते फलं पापस्य कर्मणः।
घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ 6.114.25 ॥
शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते।
विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ 6.114.26 ॥
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः।
अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥ 6.114.27 ॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली।
मयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥ 6.114.28 ॥
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः।
तव तावदयं मृत्युर्मैथिलीकृतलक्षणः ॥ 6.114.29 ॥
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥ 6.114.30 ॥
मैथिली सह रामेण विशोका विहरिष्यति।
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ 6.114.31 ॥
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने।
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ 6.114.32 ॥
पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा।
भ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ॥ 6.114.33 ॥
सैवान्येवास्मि संवृत्ता धिग् राज्ञां चञ्चलाः श्रियः ॥ 6.114.34 ॥
हा राजन् सुकुमारं ते सुभ्रु सुत्वक् समुन्नसम्।
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥ 6.114.35 ॥
किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्।
मदव्याकुललोलाक्षं भूत्वा यत् पानभूमिषु ॥ 6.114.36 ॥
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्।
तदेवाद्य तवेदं हि वक्त्रं न भ्राजते प्रभो ॥ 6.114.37 ॥
रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः।
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥ 6.114.38 ॥
हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी।
या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया ॥ 6.114.39 ॥
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः।
पुत्रो मे शक्तनिर्जेता इत्येवं गर्विता भृशम् ॥ 6.114.40 ॥
दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः।
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्द्दढा ॥ 6.114.41 ॥
तेषामेवम्प्रभावानां युष्माकं राक्षसर्षभ।
कथं भयमसम्बुद्धं मानुषादिदमागतम् ॥ 6.114.42 ॥
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्।
केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ 6.114.43 ॥
कान्तं विहारेष्वधिकं दीप्तं सङ्ग्रामभूमिषु।
भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥ 6.114.44 ॥
तदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम्।
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते ॥ 6.114.45 ॥
स्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम्।
क्षितौ निपतितं राजन् श्यावं रुधिरसच्छवि ॥ 6.114.46 ॥
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः ॥ 6.114.47 ॥
हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः।
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥ 6.114.48 ॥
त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्।
जेतारं लोकपालानां क्षेप्तारं शङ्करस्य च ॥ 6.114.49 ॥
दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्।
लोकक्षोभयितारं च नादैर्भूतविराविणम् ॥ 6.114.50 ॥
ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ।
स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ 6.114.51 ॥
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः।
निवातकवचानां च सङ्ग्रहीतारमीश्वरम् ॥ 6.114.52 ॥
नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च।
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥ 6.114.53 ॥
देवासुरनृकन्यानामाहर्तारं ततस्ततः।
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥ 6.114.54 ॥
लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्।
अस्माकं कामभोगानां दातारं रथिनां वरम् ॥ 6.114.55 ॥
एवम्प्रभावं भर्तारं दृष्ट्वा रामेण पातितम्।
स्थिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ 6.114.56 ॥
शयनेषु महार्हेषु शयित्वा राक्षसेश्वर।
इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुपाटलः ॥ 6.114.57 ॥
यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि।
तदाऽस्म्यभिहता तीव्रमद्य त्वस्मिन्निपातिता ॥ 6.114.58 ॥
नाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया।
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः ॥ 6.114.59 ॥
प्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम्।
नय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥ 6.114.60 ॥
कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि।
दीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे ॥ 6.114.61 ॥
दृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम्।
निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो ॥ 6.114.62 ॥
पश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान्।
बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि ॥ 6.114.63 ॥
अयं क्रीडासहायस्ते नाथ लालप्यते जनः।
न चैनमाश्वासयसे किं वा न बहुमन्यसे ॥ 6.114.64 ॥
पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः।
ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ 6.114.65 ॥
त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥ 6.114.66 ॥
प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप।
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले ॥ 6.114.67 ॥
कथं च नाम ते राजन् लोकानाक्रम्य तेजसा।
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥ 6.114.68 ॥
अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया।
आनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥ 6.114.69 ॥
कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम्।
तत्तुभाग्यविपर्यासान्नूनं ते पक्वलक्षणम् ॥ 6.114.70 ॥
अतीतानागतार्थज्ञो वर्तमानविचक्षणः।
मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥ 6.114.71 ॥
सोऽयं राक्षसमुख्यानां विनाशः पर्युपस्थितः।
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ 6.114.72 ॥
निर्वृत्तस्त्वत्कृतेऽनर्थः सोऽयं मूलहरो महान्।
त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥ 6.114.73 ॥
न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः।
स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ 6.114.74 ॥
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः।
आत्मानमनुशोचामि त्वद्वियोगेन दुःखिता ॥ 6.114.75 ॥
सुहृदां हितकामानां न श्रुतं वचनं त्वया।
भ्रातॄणां चापि कार्त्स्न्येन हितमुक्तं त्वयाऽनघ ॥ 6.114.76 ॥
हेत्वर्थयुक्तं विधिवत् श्रेयस्करमदारुणम्।
विभीषणेनाभिहितं न कृतं हेतुमत्त्वया ॥ 6.114.77 ॥
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा।
न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ 6.114.78 ॥
नीलजीमूतसङ्काश पीताम्बर शुभाङ्गद ॥ 6.114.79 ॥
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः।
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥ 6.114.80 ॥
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः।
यातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥ 6.114.81 ॥
उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे।
अद्य वै निर्भयां लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ 6.114.82 ॥
येन सूदयसे शत्रून् समरे सूर्यवर्चसा।
वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः ॥ 6.114.83 ॥
रणे शत्रुप्रहरणो हमजालपरिष्कृतः।
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥ 6.114.84 ॥
प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम्।
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ 6.114.85 ॥
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा।
त्वयि मञ्चत्वमापन्ने फलते शोकपीडितम् ॥ 6.114.86 ॥
इत्येवं विलपन्त्येव बाष्पव्याकुललोचना।
स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥ 6.114.87 ॥
कश्मलाभिहता सन्ना बभौ सा रावणोरसि।
सन्ध्याऽनुरक्ते जलदे दीप्ता विद्युदिवासिते ॥ 6.114.88 ॥
तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः।
पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥ 6.114.89 ॥
न ते सुविदिता देवि लोकानां स्थितिरध्रुवा।
दशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ 6.114.90 ॥
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह।
स्नापयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ 6.114.91 ॥
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह।
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ 6.114.92 ॥
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः।
रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥ 6.114.93 ॥
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा।
नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम् ॥ 6.114.94 ॥
भ्रातृरूपो हि मे शत्रुरेषसर्वाहिते रतः।
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ॥ 6.114.95 ॥
नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि।
श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः ॥ 6.114.96 ॥
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः।
विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥ 6.114.97 ॥
तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम्।
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ॥ 6.114.98 ॥
अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः।
तेजस्वी बलवान् शूरो संयुगेषु च नित्यशः ॥ 6.114.99 ॥
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः।
महात्मा बलसम्पन्नो रावणो लोकरावणः ॥ 6.114.100 ॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ 6.114.101 ॥
त्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम्।
प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि ॥ 6.114.102 ॥
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः।
संस्कारेणानुरूपेण योजयामास रावणम् ॥ 6.114.103 ॥
चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम्।
ब्राह्म्या संवेशयाञ्चक्रू राङ्कवास्तरणावृताम् ॥ 6.114.104 ॥
वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः।
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम् ॥ 6.114.105 ॥
वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम्।
पृषदाज्येन सम्पूर्णं स्रुवं सर्वे प्रचिक्षिपुः ॥ 6.114.106 ॥
दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्।
दत्त्वा तु मुसलं चान्यद्यथा स्थानं विचक्षणाः ॥ 6.114.107 ॥
शास्त्रदृष्टेन विधिना महर्षिविहितेन च।
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥ 6.114.108 ॥
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥ 6.114.109 ॥
गन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः।
विभीषणसहायास्ते वस्त्रैश्च विविधैरपि ॥ 6.114.110 ॥
लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥ 6.114.111 ॥
ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ 6.114.112 ॥
स्नात्वा चैवार्द्रवस्त्रेण तिलान् दूर्वाभिमिश्रितान्।
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् ॥ 6.114.113 ॥
प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च।
ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः ॥ 6.114.114 ॥
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः।
रामपार्श्वमुपागम्य तदाऽतिष्ठद्विनीतवत् ॥ 6.114.115 ॥
रामोऽपि सह सैन्येन समुग्रीवः सलक्ष्मणः।
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ 6.114.116 ॥