११३ रावणसम्बधिभिः शोकः

रावणं निहतं श्रुत्वा राघवेण महात्मना।
अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ 6.113.1 ॥
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु।
विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥ 6.113.2 ॥
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः।
प्रविश्यायो धनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ 6.113.3 ॥
राजपुत्रेति वादिन्यो हा नाथेति च सर्वशः।
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥ 6.113.4 ॥
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः।
करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥ 6.113.5 ॥
ददृशुस्तं महावीर्यं महाकायं महाद्युतिम्।
रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ 6.113.6 ॥
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु।
निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ 6.113.7 ॥
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह।
चरणौ काचिदालिङ्ग्य काचित् कण्ठेऽवलम्ब्य च ॥ 6.113.8 ॥
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते।
हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ 6.113.9 ॥
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती।
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ 6.113.10 ॥
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि।
चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ 6.113.11 ॥
येन वित्रासितः शक्रो येन वित्रासितो यमः।
येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ 6.113.12 ॥
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्।
भयं येन महद्दत्तं सोऽयं शेते रणे हतः ॥ 6.113.13 ॥
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा।
न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥ 6.113.14 ॥
अवध्यो देवतानां यस्तथा दानवरक्षसाम्।
हतः सोऽयं रणे शेते मानुषेण पदातिना ॥ 6.113.15 ॥
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा।
सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥ 6.113.16 ॥
एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः।
भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ॥ 6.113.17 ॥
अशृण्वता च सुहृदां सततं हितवादिनाम्।
मरणायाहृता सीता घातिताश्च निशाचराः ॥ 6.113.18 ॥
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विबीषणः।
धृष्टं परुषितो मोहात्त्वयाऽऽत्मवधकाङ्क्षिणा ॥ 6.113.19 ॥
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली।
न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ॥ 6.113.20 ॥
वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत्।
वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥ 6.113.21 ॥
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्।
राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ॥ 6.113.22 ॥
न कामकारः कामं वा तव राक्षसपुङ्गव।
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥ 6.113.23 ॥
वानराणां विनाशोऽयं रक्षसां च महाहवे।
तव चैव महाबाहो दैवयोगादुपागतः ॥ 6.113.24 ॥
नैवार्थेन न कामेन विक्रमेण न चाज्ञया।
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ 6.113.25 ॥
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः।
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ 6.113.26 ॥