११२ विभीषणेन रावणान्त्यकर्मकरणम्

भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम्।
शोकवेगपरीतात्मा विललाप विभीषणः ॥ 6.112.1 ॥
वीर विक्रान्त विख्यात विनीत नयकोविद।
महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥ 6.112.2 ॥
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ 6.112.3 ॥
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम्।
काममोहपरीतस्य यत्ते न रुचितं वचः ॥ 6.112.4 ॥
न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः।
न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः ॥ 6.112.5 ॥
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः।
गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ॥ 6.112.6 ॥
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ॥ 6.112.7 ॥
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः।
अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ॥ 6.112.8 ॥
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम्।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ 6.112.9 ॥
धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः।
रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ॥ 6.112.10 ॥
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः।
इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥ 6.112.11 ॥
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः।
प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥ 6.112.12 ॥
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती।
रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ 6.112.13 ॥
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम्।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ 6.112.14 ॥
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः।
अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥ 6.112.15 ॥
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ 6.112.16 ॥
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता।
तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥ 6.112.17 ॥
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन।
परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥ 6.112.18 ॥
इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता।
क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चय ॥ 6.112.19 ॥
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥ 6.112.20 ॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः।
उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ॥ 6.112.21 ॥
योऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन।
भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥ 6.112.22 ॥
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः।
धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ॥ 6.112.23 ॥
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः।
एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ॥ 6.112.24 ॥
स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन।
आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥ 6.112.25 ॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ 6.112.26 ॥