अथ संस्मारयामास राघवं मातलिस्तदा।
अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥ 6.111.1 ॥
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो।
विनाशकालः कथितो यः सुरैः सोऽद्य वर्तत ॥ 6.111.2 ॥
ततः संस्मारितो रामस्तेन वाक्येन मातलेः।
जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ॥ 6.111.3 ॥
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः।
ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥ 6.111.4 ॥
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा।
दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥ 6.111.5 ॥
यस्य वाजेषु पवनः फले पावकभास्करौ।
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ 6.111.6 ॥
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्।
तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ 6.111.7 ॥
सधूममिव कालाग्निं दीप्तमाशीविषं यथा।
परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ 6.111.8 ॥
द्वाराणां परिघाणां च गिरीणामपि भेदनम्।
नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ 6.111.9 ॥
वज्रसारं महानादं नानासमितिदारणम्।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ 6.111.10 ॥
कङ्कगृध्रवलानां च गोमायुगणरक्षसाम्।
नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ॥ 6.111.11 ॥
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्।
वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ 6.111.12 ॥
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्।
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ 6.111.13 ॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः।
वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥ 6.111.14 ॥
तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे।
सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ॥ 6.111.15 ॥
स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम्।
चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥ 6.111.16 ॥
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः।
कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ 6.111.17 ॥
स विसृष्टो महावेगः शरीरान्तकरः शरः।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥ 6.111.18 ॥
रुधिराक्तः स वेगेन जीवितान्तकरः शरः।
रावणस्य हरन् प्राणान् विवेश धरणीतलम् ॥ 6.111.19 ॥
स शरो रावणं हत्वा रुधिरार्दीकृतच्छविः।
कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत् ॥ 6.111.20 ॥
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्।
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ 6.111.21 ॥
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः।
पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥ 6.111.22 ॥
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः।
हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥ 6.111.23 ॥
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः ॥ 6.111.24 ॥
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्।
गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥ 6.111.25 ॥
ततो विनेदुः संहृष्टा वानरा जितकाशिनः।
वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ 6.111.26 ॥
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः।
दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ॥ 6.111.27 ॥
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि।
किरन्ती राघवरथं दुरवापा मनोरमा ॥ 6.111.28 ॥
राघवस्तवसंयुक्ता गगनेऽपि च शुश्रुवे।
साधु साध्विति वागग्र्या दैवतानां महात्मनाम् ॥ 6.111.29 ॥
आविवेश महाहर्षो देवानां चारणैः सह।
रावणे निहते रौद्रे सर्वलोकभयङ्करे ॥ 6.111.30 ॥
ततः सकामं सुग्रीवमङ्गदं च महाबलम्।
चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ॥ 6.111.31 ॥
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽबवत्।
मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ 6.111.32 ॥
ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा।
समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिना ह्यपूजयन् ॥ 6.111.33 ॥
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज।
रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥ 6.111.34 ॥