११० राम-रावणयोर्भीषणयुद्धम्

तौ तदा युद्ध्यमानौ तु समरे रामरावणौ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ 6.110.1 ॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥ 6.110.2 ॥
मण्डलानि च वीथीश्च गतप्रत्यागतानि च।
दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् ॥ 6.110.3 ॥
अर्दयन् रावणं रामो राघवं चापि रावणः।
गतिवेगं समापन्नौ प्रवर्तननिवर्तने ॥ 6.110.4 ॥
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ।
चेरतुः संयुगमहीं सासारौ जलदौ यथा ॥ 6.110.5 ॥
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे।
परस्परस्याभिमुखौ पुनरेवावतस्थतुः ॥ 6.110.6 ॥
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्।
पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥ 6.110.7 ॥
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः।
चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् ॥ 6.110.8 ॥
स क्रोधवशमापन्नो हयानामपसर्पणे।
मुमोच निशितान् बाणान् राघवाय निशाचरः ॥ 6.110.9 ॥
सोऽतिविद्धो बलवता दशग्रीवेण राघवः।
जगाम न विकारं च न चापि व्यथितोऽभवत् ॥ 6.110.10 ॥
चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान्।
साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ॥ 6.110.11 ॥
मातलेस्तु महावेगाः शरीरे पतिताः शराः।
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि ॥ 6.110.12 ॥
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः।
चकार शरजालेन राघवो विमुखं रिपुम् ॥ 6.110.13 ॥
विंशतं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः।
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः ॥ 6.110.14 ॥
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ 6.110.15 ॥
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥ 6.110.16 ॥
गदानां मुसलानां च परिघाणां च निस्वनैः।
शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ॥ 6.110.17 ॥
क्षुब्धानां सागराणां च पातालतलवासिनः।
व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ 6.110.18 ॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥ 6.110.19 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ॥ 6.110.20 ॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः।
जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ॥ 6.110.21 ॥
एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ 6.110.22 ॥
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ॥ 6.110.23 ॥
रामरावणयोर्युद्धं रामरावणयोरिव।
एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥ 6.110.24 ॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः।
सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ॥ 6.110.25 ॥
रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्।
तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा ॥ 6.110.26 ॥
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः।
तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ 6.110.27 ॥
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः।
छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते ॥ 6.110.28 ॥
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः।
एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ॥ 6.110.29 ॥
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥ 6.110.30 ॥
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः।
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥ 6.110.31 ॥
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः।
क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ॥ 6.110.32 ॥
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम।
किं नु तत्कारणं येन रावणे मन्दतेजसः ॥ 6.110.33 ॥
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे।
ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ 6.110.34 ॥
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ 6.110.35 ॥
तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम्।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ 6.110.36 ॥
देवदानवयक्षाणां पिशाचोरगरक्षसाम्।
पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ॥ 6.110.37 ॥
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम्।
रामरावणयोर्युद्धं विराममुपगच्छति ॥ 6.110.38 ॥
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य।
सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु ॥ 6.110.39 ॥