१०९ राम-रावणयोर्भीषणयुद्धम्

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा।
सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ॥ 6.109.1 ॥
ततो राक्षससैन्यं च हरीणां च महद्बलम्।
प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ॥ 6.109.2 ॥
सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ 6.109.3 ॥
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः।
सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ॥ 6.109.4 ॥
रक्षसां रावणं चापि वानराणां च राघवम्।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ 6.109.5 ॥
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् ॥ 6.109.6 ॥
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः।
धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ 6.109.7 ॥
ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान्।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ 6.109.8 ॥
ते शरास्तमनासाद्य पुरन्दररथध्वजम्।
रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ 6.109.9 ॥
ततो रामोऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान्।
कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥ 6.109.10 ॥
रावणध्वजमुद्दिश्य मुमोच निशितं शरम्।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ 6.109.11 ॥
जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः।
स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः ॥ 6.109.12 ॥
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः।
सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव ॥ 6.109.13 ॥
स रोषवशमापन्नः शरवर्षं महद्वमन्।
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ॥ 6.109.14 ॥
ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः।
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ 6.109.15 ॥
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा।
भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ॥ 6.109.16 ॥
गदाश्च परिघाश्चैव चक्राणि मुसलानि च।
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥ 6.109.17 ॥
मायाविहितमेतत्तु शस्त्रवर्षमपातयत्।
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥ 6.109.18 ॥
तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत्।
विमुच्य राघवरथं समान्ताद्वानरे बले ॥ 6.109.19 ॥
सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः।
मुमोच च दशग्रीवो निस्सङ्गेनाऽन्तरात्मना ॥ 6.109.20 ॥
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे।
प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ॥ 6.109.21 ॥
स मुमोच ततो बाणान् रणे शतसहस्रशः।
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥ 6.109.22 ॥
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता।
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ॥ 6.109.23 ॥
नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः ॥ 6.109.24 ॥
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले।
तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ॥ 6.109.25 ॥
प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्।
चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ॥ 6.109.26 ॥
रावणस्य हयान् रामो हयान् रामस्य रावणः।
जघ्नतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ ॥ 6.109.27 ॥
एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम्।
मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥ 6.109.28 ॥
प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ।
ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ॥ 6.109.29 ॥