१०८ राम-मातलिसंवादः

स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम्।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ 6.108.1 ॥
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ 6.108.2 ॥
प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम्।
रावणस्य रथं क्षिप्रं चोदयामास सारथिः ॥ 6.108.3 ॥
तमापतन्तं सहसा स्वनवन्तं महास्वनम्।
रथं राक्षसराजस्य नरराजो ददर्श ह ॥ 6.108.4 ॥
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा।
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ॥ 6.108.5 ॥
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम्।
तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ॥ 6.108.6 ॥
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्।
विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः ॥ 6.108.7 ॥
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ 6.108.8 ॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः ॥ 6.108.9 ॥
यथाऽऽपसव्यं पतता वेगेन महता पुनः।
समरे हन्तुमात्मानं तथा तेन कृता मतिः ॥ 6.108.10 ॥
तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः।
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥ 6.108.11 ॥
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्।
रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ॥ 6.108.12 ॥
कामं न त्वं समाधेयः पुरन्दररथोचितः।
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥ 6.108.13 ॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः।
प्रचोदयामास रथं सुरसारथिसत्तमः ॥ 6.108.14 ॥
अपसव्यं ततः कुर्वन् रावणस्य महारथम्।
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ॥ 6.108.15 ॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः।
रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ 6.108.16 ॥
जग्राह सुमहावेगमैन्द्रं युधि शरासनम्।
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ 6.108.17 ॥
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ 6.108.18 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ॥ 6.108.19 ॥
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः।
रावणस्य विनाशाय राघवस्य जयाय च ॥ 6.108.20 ॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि।
वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ॥ 6.108.21 ॥
महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले।
येन येन रथो याति तेन तेन प्रधावति ॥ 6.108.22 ॥
सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया।
दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुन्धरा ॥ 6.108.23 ॥
सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः।
विषादयंस्ते रक्षांसि रावणस्य तदाऽहिताः ॥ 6.108.24 ॥
रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा।
रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ 6.108.25 ॥
ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः।
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥ 6.108.26 ॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ 6.108.27 ॥
प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन्।
तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ॥ 6.108.28 ॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः।
दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ॥ 6.108.29 ॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः।
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ 6.108.30 ॥
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति।
निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥ 6.108.31 ॥
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि सन्ततम्।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ 6.108.32 ॥
एवम्प्रकारा बहवः समुत्पाता भयावहाः।
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥ 6.108.33 ॥
रामस्यापि निमित्तानि सौम्यानि च शुभानि च।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ 6.108.34 ॥
निमित्तानि च सौम्यानि राघवः स्वजयाय च।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥ 6.108.35 ॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः।
जगाम हर्षं च परां च निर्वृत्तिं चकार युद्धे ह्यधिकं च विक्रमम् ॥ 6.108.36 ॥