१०६ रावणस्य पुनरागमनम्

स तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः।
क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥ 6.106.1 ॥
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्।
भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ 6.106.2 ॥
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्।
मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ 6.106.3 ॥
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च।
त्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ॥ 6.106.4 ॥
त्वयाऽद्य हि ममानार्य चिरकालसमार्जितम्।
यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ 6.106.5 ॥
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः।
पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ 6.106.6 ॥
यस्त्वं रथमिमं मोहात् न चोद्वहसि दुर्मते।
सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ 6.106.7 ॥
न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः।
रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ॥ 6.106.8 ॥
निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः।
यदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ॥ 6.106.9 ॥
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना।
अब्रवीद्रावणं सूतो हितं सानुनयं वचः ॥ 6.106.10 ॥
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः।
न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥ 6.106.11 ॥
मया तु हितकामेन यशश्च परिरक्षता।
स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥ 6.106.12 ॥
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्।
कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ 6.106.13 ॥
श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः।
नदीवेग इवाभोगे संयुगे विनिवर्तितः ॥ 6.106.14 ॥
क्षमं तवावगच्छामि महता रणकर्मणा।
न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥ 6.106.15 ॥
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः।
दीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥ 6.106.16 ॥
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः।
तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ 6.106.17 ॥
देशकालौ च विज्ञेयौ लक्षणानीङ्गीतानि च।
दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ 6.106.18 ॥
स्थलनिम्नानि भूमेश्च समानि विषमाणि च।
युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ 6.106.19 ॥
उपयानापयाने च स्थानं प्रत्यपसर्पणम्।
सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ 6.106.20 ॥
तव विश्रमहेतोश्च तथैषां रथवाजिनाम्।
रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥ 6.106.21 ॥
न मया स्वेच्छया वीर रथोऽयमपवाहितः ॥ 6.106.22 ॥
भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ 6.106.23 ॥
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन।
तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ 6.106.24 ॥
सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः।
प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ 6.106.25 ॥
रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु।
नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥ 6.106.26 ॥
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः।
ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ॥ 6.106.27 ॥
श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत ॥ 6.106.28 ॥
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः।
स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ 6.106.29 ॥