स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे।
रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ 6.105.1 ॥
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान्।
अभ्यर्दयत् सुसङ्क्रुद्धो राघवं परमाहवे ॥ 6.105.2 ॥
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात्।
राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥ 6.105.3 ॥
पूरितः शरजालेन धनुर्मुक्तेन संयुगे।
महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥ 6.105.4 ॥
स शरैः शरजालानि वारयन् समरे स्थितः।
गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ 6.105.5 ॥
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः।
निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ 6.105.6 ॥
स शोणित समादिग्धः समरे लक्ष्मणाग्रजः।
दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ॥ 6.105.7 ॥
शराभिघातसंरब्धः सोऽपि जग्राह सायकान्।
काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ॥ 6.105.8 ॥
ततोऽयोन्यं सुसंरब्धावुभौ तौ रामरावणौ।
शरान्धकारे समरे नोपालक्षयतां तदा ॥ 6.105.9 ॥
ततः क्रोधसमाविष्टो रामो दशरथात्मजः।
उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ 6.105.10 ॥
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम।
हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ 6.105.11 ॥
मया विरहितां दीनां वर्तमानां महावने।
वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥ 6.105.12 ॥
स्त्रीषु शूर विनाथासु परदाराभिमर्शक।
कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥ 6.105.13 ॥
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित।
दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ 6.105.14 ॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च।
श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥ 6.105.15 ॥
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च।
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ॥ 6.105.16 ॥
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते।
नैव लज्जाऽस्ति ते सीतां चोरवद् व्यपकर्षतः ॥ 6.105.17 ॥
यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात्।
भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ 6.105.18 ॥
दिष्ट्याऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः।
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ 6.105.19 ॥
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्।
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ 6.105.20 ॥
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण।
पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥ 6.105.21 ॥
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते।
कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ 6.105.22 ॥
इत्येवं संवदन् वीरो रामः शत्रुनिबर्हणः।
राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ 6.105.23 ॥
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे।
रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ॥ 6.105.24 ॥
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः।
प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥ 6.105.25 ॥
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः।
भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ 6.105.26 ॥
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्।
हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ 6.105.27 ॥
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम्।
नास्य प्रत्यकरोद्वीर्यं विक्लेवेनान्तरात्मना ॥ 6.105.28 ॥
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च।
न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥ 6.105.29 ॥
सूतस्तु रथनेताऽस्य तदवस्थं समीक्ष्य तम्।
शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ॥ 6.105.30 ॥