१०४ रामास्त्राहतो रावणः

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः।
सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ 6.104.1 ॥
सिंहशार्दूलवान् शैलः सञ्चचाल चलद्रुमः।
बभूव चातिक्षुभितः समुद्रः सरितां पतिः ॥ 6.104.2 ॥
खगाश्च खरनिर्घोषा गगने परुषा घनाः।
औत्पातिकानि नर्दन्तः समन्तात् परिचक्रमुः ॥ 6.104.3 ॥
रामं दृष्ट्वा सुसङ्क्रुद्धमुत्पातांश्च सुदारुणान्।
वित्रेसुः सर्वभूतानि रावणस्याभवद्भयेम् ॥ 6.104.4 ॥
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः।
ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥ 6.104.5 ॥
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम्।
नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुद्ध्यतोः ॥ 6.104.6 ॥
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः।
प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ 6.104.7 ॥
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः।
देवा राममथोचुस्ते त्वं जयेति पुनःपुनः ॥ 6.104.8 ॥
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः।
प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ॥ 6.104.9 ॥
वज्रसारं महानादं सर्वशत्रुनिबर्हणम्।
शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥ 6.104.10 ॥
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्।
अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ 6.104.11 ॥
त्रासनं सर्वभूतानां दारणं भेदनं तदा।
प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ॥ 6.104.12 ॥
तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान्।
अनेकैः समरे शूरै राक्षसैः परिवारितः ॥ 6.104.13 ॥
समुद्यम्य महाकायो ननाद युधि भैरवम्।
संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ॥ 6.104.14 ॥
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा।
प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ 6.104.15 ॥
अतिनादस्य नादेन तेन तस्य दुरात्मनः।
सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥ 6.104.16 ॥
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत्।
विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ 6.104.17 ॥
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः।
तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ॥ 6.104.18 ॥
त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्।
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ॥ 6.104.19 ॥
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ 6.104.20 ॥
तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम्।
अष्टघण्टं महानादं वियद्गतमशोभत ॥ 6.104.21 ॥
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्।
ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ॥ 6.104.22 ॥
आपतन्तं शरौघेण वारयामास राघवः।
उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ 6.104.23 ॥
निर्ददाह स तान् बाणान् रामकार्मुकनिस्सृतान्।
रावणस्य महाशूलः पतङ्गानिव पावकः ॥ 6.104.24 ॥
तान् दृष्ट्वा भस्मसाद्भूतान् शूल संस्पर्शचूर्णितान्।
सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ॥ 6.104.25 ॥
स तां मातलिनाऽऽनीतां शक्तिं वासवनिर्मिताम्।
जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ 6.104.26 ॥
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना।
नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥ 6.104.27 ॥
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिन् शूले पपात ह।
भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः ॥ 6.104.28 ॥
निर्बिभेद ततो बाणैर्हयानस्य महाजवान्।
रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ॥ 6.104.29 ॥
निर्बिभेदोरसि ततो रावणं निशितैः शरैः।
राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥ 6.104.30 ॥
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः।
राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ 6.104.31 ॥
स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः।
जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥ 6.104.32 ॥