सन्दधे परवीरघ्नो धनुरादाय वीर्यवान्।
रावणाय शरान् घोरान् विससर्ज चमूमुखे ॥ 6.103.1 ॥
अथान्यं रथमारुह्य रावणो राक्षसाधिपः।
अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ॥ 6.103.2 ॥
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः।
आजघान महाघोरैर्धाराभिरिव तोयदः ॥ 6.103.3 ॥
दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः।
निर्बिभेद रणे रामो दशग्रीवं समाहितम् ॥ 6.103.4 ॥
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः।
न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥ 6.103.5 ॥
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः।
तरुणादित्यसङ्काशो वैडूर्यमयकूबरः ॥ 6.103.6 ॥
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः।
हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ॥ 6.103.7 ॥
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः।
देवराजेन सन्दिष्टो रथमारुह्य मातलिः ॥ 6.103.8 ॥
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ 6.103.9 ॥
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ 6.103.10 ॥
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते।
दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥ 6.103.11 ॥
इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम्।
शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ॥ 6.103.12 ॥
आरुह्येमं रथं वीर राक्षसं जहि रावणम्।
मया सारथिना राजन् महेन्द्र इव दानवान् ॥ 6.103.13 ॥
इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च।
आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ॥ 6.103.14 ॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्।
रामस्य च महाबाहो रावणस्य च रक्षसः ॥ 6.103.15 ॥
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ 6.103.16 ॥
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ 6.103.17 ॥
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ 6.103.18 ॥
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ 6.103.19 ॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः।
दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥ 6.103.20 ॥
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे।
अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् ॥ 6.103.21 ॥
ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ 6.103.22 ॥
ते तान् सर्वान् शरान् जघ्नुः सर्परूपान् महाजवान्।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ 6.103.23 ॥
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः।
अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ 6.103.24 ॥
ततः शरसहस्रेण राममक्लिष्टकारिणम्।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ 6.103.25 ॥
पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम्।
ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः ॥ 6.103.26 ॥
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः।
विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ॥ 6.103.27 ॥
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः।
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥ 6.103.28 ॥
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा।
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ॥ 6.103.29 ॥
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ 6.103.30 ॥
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः।
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ 6.103.31 ॥
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः।
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥ 6.103.32 ॥
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्।
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ 6.103.33 ॥
दशास्यो विंशतिभुजः प्रगृहीतशरासनः।
अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ 6.103.34 ॥
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा।
नाशक्नोदभिसन्धातुं सायकान् रणमूर्धनि ॥ 6.103.35 ॥
स कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित् संरक्तलोचनः।
जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ 6.103.36 ॥