शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा।
लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥ 6.102.1 ॥
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः।
विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् ॥ 6.102.2 ॥
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ।
सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ 6.102.3 ॥
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम।
पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ 6.102.4 ॥
अयं स समरश्लाघी भ्राता मे शुभलक्षणः।
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥ 6.102.5 ॥
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता।
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ॥ 6.102.6 ॥
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ॥ 6.102.7 ॥
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ॥ 6.102.8 ॥
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्।
दुःखेन महताऽऽविष्टो ध्यानशोकपरायणः ॥ 6.102.9 ॥
परं विषादमापन्नो विललापाकुलेन्द्रियः ॥ 6.102.10 ॥
न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया।
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ 6.102.11 ॥
किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते।
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ 6.102.12 ॥
देशे देशे कलत्राणि देशे देशे च बान्धवाः।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ 6.102.13 ॥
विवेष्टमानं करुणमुच्छ्वसन्तं पुनःपुनः।
राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् ॥ 6.102.14 ॥
न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः।
न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ॥ 6.102.15 ॥
सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते।
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥ 6.102.16 ॥
एवं न विद्यते रूपं गतासूनां विशाम्पते।
दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्दशम् ॥ 6.102.17 ॥
नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः।
मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः ॥ 6.102.18 ॥
आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले।
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ 6.102.19 ॥
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः।
हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ॥ 6.102.20 ॥
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम्।
पूर्वं ते कथितो योऽसौ वीर जाम्बवता शुभः ॥ 6.102.21 ॥
दक्षिणे शिखरे तस्य जातमोषधिमानय।
विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ॥ 6.102.22 ॥
सवर्णकरणीं चापि तथा सञ्जीवनीमपि।
सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ॥ 6.102.23 ॥
इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ॥ 6.102.24 ॥
अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम्।
प्रतर्केणावगच्छामि सुषेणोऽप्येवमब्रवीत् ॥ 6.102.25 ॥
अगृह्य यदि गच्छामि विशल्यकरणीमहम्।
कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ॥ 6.102.26 ॥
इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः।
आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ॥ 6.102.27 ॥
फुल्लनानातरुगणं समुत्पाट्य महाबलः।
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥ 6.102.28 ॥
स नीलमिव जीमूतं तोयपूर्णं नभस्थलात्।
आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ॥ 6.102.29 ॥
समागम्य महावेगः सन्न्यस्य शिखरं गिरेः।
विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् ॥ 6.102.30 ॥
ओषधिं नावगच्छामि तामहं हरिपुङ्गव।
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥ 6.102.31 ॥
एवं कथयमानं तं प्रशस्य पवनात्मजम्।
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ॥ 6.102.32 ॥
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः।
दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ॥ 6.102.33 ॥
ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः।
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ॥ 6.102.34 ॥
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा।
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ 6.102.35 ॥
तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्।
साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ 6.102.36 ॥
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा।
सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ॥ 6.102.37 ॥
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा।
दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ॥ 6.102.38 ॥
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण।
को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ॥ 6.102.39 ॥
इत्येवं वदतस्तस्य राघवस्य महात्मनः।
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ 6.102.40 ॥
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम।
लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥ 6.102.41 ॥
न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ।
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥ 6.102.42 ॥
नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ।
वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ 6.102.43 ॥
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः।
नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ 6.102.44 ॥
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ 6.102.45 ॥
यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम्।
यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्यवीर ॥ 6.102.46 ॥