१०१ रावणस्य युद्धपलायनम्

तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः।
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ 6.101.1 ॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः।
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ 6.101.2 ॥
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च।
कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥ 6.101.3 ॥
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ 6.101.4 ॥
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ 6.101.5 ॥
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥ 6.101.6 ॥
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च।
कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ 6.101.7 ॥
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ 6.101.8 ॥
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः।
आयुधानि च चित्राणि रावणस्य चमूमुखे ॥ 6.101.9 ॥
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ 6.101.10 ॥
स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः।
रावणेन महातेजा न प्राकम्पत राघवः ॥ 6.101.11 ॥
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः।
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥ 6.101.12 ॥
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली।
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ 6.101.13 ॥
तैः सायकैर्महावेगै रावणस्य महाद्युतिः।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ 6.101.14 ॥
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्।
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥ 6.101.15 ॥
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥ 6.101.16 ॥
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्।
जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ 6.101.17 ॥
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात्।
क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ 6.101.18 ॥
ततः शक्तिं महाशक्तिर्दीप्तां दीम्प्ताशनीमिव।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ 6.101.19 ॥
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः।
अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ॥ 6.101.20 ॥
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी।
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ 6.101.21 ॥
ततः सम्भाविततरां कालेनापि दुरासदाम्।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ 6.101.22 ॥
सा वेगिता बलवता रावणेन दुरासदा।
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ 6.101.23 ॥
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्।
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ 6.101.24 ॥
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ 6.101.25 ॥
कीर्यमाणः शरौघेण विसृष्टेन महात्मना।
स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ 6.101.26 ॥
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ 6.101.27 ॥
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः।
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ 6.101.28 ॥
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा।
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ 6.101.29 ॥
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्।
मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ 6.101.30 ॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा।
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ 6.101.31 ॥
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ 6.101.32 ॥
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ 6.101.33 ॥
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा।
मुक्ताऽऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥ 6.101.34 ॥
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ 6.101.35 ॥
ततो रावणवेगेन सुदूरमवगाढया।
शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ 6.101.36 ॥
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ 6.101.37 ॥
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः।
बभूव संरब्धतरो युगान्त इव पावकः ॥ 6.101.38 ॥
चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः।
सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ॥ 6.101.39 ॥
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे।
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ 6.101.40 ॥
तामपि प्रहितां शक्तिं रावणेन बलीयसा।
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥ 6.101.41 ॥
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ 6.101.42 ॥
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ 6.101.43 ॥
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्।
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥ 6.101.44 ॥
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा।
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ 6.101.45 ॥
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम्।
अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ॥ 6.101.46 ॥
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ 6.101.47 ॥
पापात्माऽयं दशग्रीवो वध्यतां पापनिश्चयः।
काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥ 6.101.48 ॥
अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः।
अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥ 6.101.49 ॥
राज्यनाशं वने वासं दण्डके परिधावनम्।
वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥ 6.101.50 ॥
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम्।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ 6.101.51 ॥
यदर्थं वानरं सैन्यं समानीतमिदं मया।
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥ 6.101.52 ॥
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे।
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ 6.101.53 ॥
चक्षुर्विषयमागम्य नायं जीवितुमर्हति।
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥ 6.101.54 ॥
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः।
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ 6.101.55 ॥
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे।
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ 6.101.56 ॥
सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति।
समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ 6.101.57 ॥
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः।
आजघान दशग्रीवं रणे रामः समाहितः ॥ 6.101.58 ॥
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः।
अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ 6.101.59 ॥
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्।
शराणां च शराणां च बभूव तुमुलः स्वनः ॥ 6.101.60 ॥
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ 6.101.61 ॥
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ 6.101.62 ॥
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मताऽर्दितः।
भयात् प्रदुद्राव समेत्य रावणो यथाऽनिलेनाभिहतो बलाहकः ॥ 6.101.63 ॥