तस्मिंश्च निहते वीरे विरूपाक्षे महाबले।
आविवेश महान् क्रोधो रावणं तं महामृधे ॥ 6.100.1 ॥
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥ 6.100.2 ॥
निहतानाममात्यानां रुद्धस्य नगरस्य च।
दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ 6.100.3 ॥
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।
प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥ 6.100.4 ॥
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः।
हमूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ 6.100.5 ॥
स दिशो दश धोषेण रथस्यातिरथो महान्।
नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ 6.100.6 ॥
पूरिता तेन शब्देन सनदीगिरिकानना।
सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥ 6.100.7 ॥
तामसं स महाघोरं चकारास्त्रं सुदारुणम्।
निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ॥ 6.100.8 ॥
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः।
न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ 6.100.9 ॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ 6.100.10 ॥
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्।
स ददर्श ततो रामं तिष्ठन्तमपारजितम् ॥ 6.100.11 ॥
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः।
पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ॥ 6.100.12 ॥
ततो रामो महातेजाः सौमित्रिसहितो बली।
वानरांश्च रणे भग्नानापतन्तं च रावणम् ॥ 6.100.13 ॥
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ 6.100.14 ॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम्।
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ 6.100.15 ॥
रावणस्य च बाणौघैरामविस्फारितेन च।
शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ 6.100.16 ॥
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः।
स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ 6.100.17 ॥
तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।
मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ 6.100.18 ॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।
बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ 6.100.19 ॥
एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश।
लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥ 6.100.20 ॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः।
आससाद ततो रामं स्थितं शैलमिवाचलम् ॥ 6.100.21 ॥
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः।
व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ 6.100.22 ॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः।
दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ॥ 6.100.23 ॥
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।
दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ॥ 6.100.24 ॥
राघवो रावणं तूर्णं रावणो राघवं तदा।
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ 6.100.25 ॥
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।
बाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ ॥ 6.100.26 ॥
तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः।
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ 6.100.27 ॥
सन्ततं विविधैर्बाणैर्बभूव गगनं तदा।
घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ 6.100.28 ॥
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ॥ 6.100.29 ॥
शरान्धकारं तौ भीमं चक्रुतुः समरं तदा।
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ 6.100.30 ॥
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः।
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ 6.100.31 ॥
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ।
उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ 6.100.32 ॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः।
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ 6.100.33 ॥
ततः संसक्तहस्तस्तु रावणो लोकरावणः।
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ 6.100.34 ॥
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।
शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ॥ 6.100.35 ॥
शरान् भूयः समादाय रामः क्रोधसमन्वितः।
मुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥ 6.100.36 ॥
ते महामेघसङ्काशे कवचे पतिताः शराः।
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ 6.100.37 ॥
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।
ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥ 6.100.38 ॥
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ 6.100.39 ॥
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः।
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ॥ 6.100.40 ॥
सिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि।
गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ॥ 6.100.41 ॥
ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्।
पञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान् ॥ 6.100.42 ॥
शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्।
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥ 6.100.43 ॥
एतानन्यांश्च मायावी ससर्ज निशितान् शरान्।
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ 6.100.44 ॥
आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः।
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥ 6.100.45 ॥
अग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि।
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥ 6.100.46 ॥
ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान्।
विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान् ॥ 6.100.47 ॥
ते रावणशरा घोरा राघवास्त्रसमाहताः ॥ 6.100.48 ॥
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ 6.100.49 ॥
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः।
सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ 6.100.50 ॥
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम्।
मुदाऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ 6.100.51 ॥