सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः।
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥ 6.99.1 ॥
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः।
पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥ 6.99.2 ॥
केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः।
वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् ॥ 6.99.3 ॥
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः।
विषादविमुखाः सर्वे बभूवुर्गतचेतसः ॥ 6.99.4 ॥
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्।
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥ 6.99.5 ॥
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्।
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ॥ 6.99.6 ॥
स तु तेन प्रहारेण महापार्श्वो विचेतनः।
ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि ॥ 6.99.7 ॥
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः।
निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात् ॥ 6.99.8 ॥
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम्।
अश्वान् जघान तरसा स्यन्दनं च बभञ्ज तम् ॥ 6.99.9 ॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः।
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ॥ 6.99.10 ॥
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे।
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ॥ 6.99.11 ॥
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ।
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ॥ 6.99.12 ॥
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम्।
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥ 6.99.13 ॥
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान्।
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ॥ 6.99.14 ॥
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ 6.99.15 ॥
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ॥ 6.99.16 ॥
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।
करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ 6.99.17 ॥
तं तैलधौतं विमलं शैलसारमयं दृढम्।
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥ 6.99.18 ॥
तेन वामांसफलके भृशं प्रत्यवपादितम्।
अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥ 6.99.19 ॥
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः।
संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ॥ 6.99.20 ॥
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ॥ 6.99.21 ॥
तेन तस्य निपातेन राक्षसस्य महामृधे।
पफाल हृदयं चाशु स पपात हतो भुवि ॥ 6.99.22 ॥
तस्मिन्निपतिते भूमौ तत् सैन्यं सम्प्रचुक्षुभे।
अभवच्च महान् क्रोधः समरे रावणस्य तु ॥ 6.99.23 ॥
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः।
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ॥ 6.99.24 ॥
महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ 6.99.25 ॥
अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम्।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥ 6.99.26 ॥