हन्यमाने बले तूर्णमन्योन्यं ते महामृधे।
सरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ 6.98.1 ॥
स्वबलस्य विघातेन विरूपाक्षवधेन च।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ 6.98.2 ॥
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्।
उवाच च समीपस्थं महोदरमरिन्दमम् ॥ 6.98.3 ॥
अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता।
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ॥ 6.98.4 ॥
भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ 6.98.5 ॥
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।
प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ 6.98.6 ॥
ततः स कदनं चक्रे वानराणां महाबलः।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ 6.98.7 ॥
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।
प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ 6.98.8 ॥
महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः।
चिच्छेद पाणिपादोरून् वानराणां महाहवे ॥ 6.98.9 ॥
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।
दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ॥ 6.98.10 ॥
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ 6.98.11 ॥
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।
चिक्षेप च महातेजास्तद्वधाय हरीस्वरः ॥ 6.98.12 ॥
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ 6.98.13 ॥
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।
निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ 6.98.14 ॥
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।
सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ 6.98.15 ॥
शरैश्च विददारैनं शूरः परपुरञ्जयः ॥ 6.98.16 ॥
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ 6.98.17 ॥
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।
परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ 6.98.18 ॥
तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात्।
गदां जग्राह सङ्क्रुद्धो राक्षसोऽथ महोदरः ॥ 6.98.19 ॥
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः।
नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ॥ 6.98.20 ॥
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ 6.98.21 ॥
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे।
आजघान गदां तस्य परिघेण हरीश्वरः ॥ 6.98.22 ॥
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ 6.98.23 ॥
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ 6.98.24 ॥
स तमुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम्।
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ 6.98.25 ॥
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ 6.98.26 ॥
जघ्नतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनःपुनः।
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ 6.98.27 ॥
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ।
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ॥ 6.98.28 ॥
आजहार ततः खड्गमदूरपरिवर्तिनम्।
राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ 6.98.29 ॥
तथैव च महाखड्गं चर्मणा पतितं सह।
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ 6.98.30 ॥
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्।
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ 6.98.31 ॥
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।
अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ॥ 6.98.32 ॥
स तु शूरो महावेगो वीर्यश्लाघी महोदरः।
महाचर्मणि तं खड्गं पातयामास दुर्मतिः ॥ 6.98.33 ॥
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ 6.98.34 ॥
निकृत्तशिरसस्तस्य पतितस्य महीतले।
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ 6.98.35 ॥
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ 6.98.36 ॥
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ 6.98.37 ॥
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्।
सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ 6.98.38 ॥
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः।
अवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ॥ 6.98.39 ॥