तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ 6.97.1 ॥
रावणस्याप्रसह्यं तं शरसम्पातमेकतः।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥ 6.97.2 ॥
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः।
पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ॥ 6.97.3 ॥
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः।
स ययौ समरे तस्मिन् विधमन् रावणः शरैः ॥ 6.97.4 ॥
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।
आससाद ततो युद्धे राघवं त्वरितस्तदा ॥ 6.97.5 ॥
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः ॥ 6.97.6 ॥
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम्।
सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥ 6.97.7 ॥
पार्श्वतः पृष्टतश्चास्य सर्वे यूथपाधिपाः स्वयम्।
अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ॥ 6.97.8 ॥
स नर्दन् युधि सुग्रीवः स्वरेण महता महान्।
पातयन् विविधांश्चान्यान् जगामोत्तमराक्षसान् ॥ 6.97.9 ॥
ममन्थ च महाकायो राक्षसान् वानरेश्वरः।
युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ 6.97.10 ॥
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥ 6.97.11 ॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः।
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ 6.97.12 ॥
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः।
सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ॥ 6.97.13 ॥
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ 6.97.14 ॥
स तं द्विरदमारुह्य विरूपाक्षो महारथः।
विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ॥ 6.97.15 ॥
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे।
स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ॥ 6.97.16 ॥
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा।
चक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥ 6.97.17 ॥
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः।
अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥ 6.97.18 ॥
स तु प्रहाराभिहतः सुग्रीवेण महागजः।
अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ 6.97.19 ॥
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान्।
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ 6.97.20 ॥
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ 6.97.21 ॥
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम्।
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥ 6.97.22 ॥
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥ 6.97.23 ॥
तेन खड्गप्रहारेण रक्षसा बलिना हतः।
मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ॥ 6.97.24 ॥
स तदा सहसोत्पत्य राक्षसस्य महाहवे।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥ 6.97.25 ॥
तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे।
कवचं पातयामास पद्भ्यामभिहतोऽपतत् ॥ 6.97.26 ॥
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्।
तलप्रहारमशनेः समानं भीमनिस्वनम् ॥ 6.97.27 ॥
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्।
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥ 6.97.28 ॥
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥ 6.97.29 ॥
ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् ॥ 6.97.30 ॥
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ 6.97.31 ॥
पपात रुधिरक्लिन्नः शोणितं च समुद्वमन्।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ 6.97.32 ॥
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ 6.97.33 ॥
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥ 6.97.34 ॥
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम्।
बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥ 6.97.35 ॥
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन।
बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥ 6.97.36 ॥