०९५ राक्षसीभिः प्रलापः

तानि तानि सहस्राणि सारोहाणां च वाजिनाम्।
रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥ 6.95.1 ॥
राक्षसानां सहस्राणि गदापरिघयोधिनाम्।
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ 6.95.2 ॥
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः।
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ 6.95.3 ॥
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः।
राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ 6.95.4 ॥
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः।
राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ॥ 6.95.5 ॥
आससाद वने रामं कन्दर्पमिव रूपिणम्।
सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ॥ 6.95.6 ॥
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ॥ 6.95.7 ॥
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्।
सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ 6.95.8 ॥
जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा।
अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ 6.95.9 ॥
राक्षसानां विनाशाय दूषणस्य खरस्य च।
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥ 6.95.10 ॥
तन्निमित्तमिदं वैरं रावणेन कृतं महत्।
वधाय सीता साऽऽनीता दशग्रीवेण रक्षसा ॥ 6.95.11 ॥
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्।
बद्धं बलवता वैरमक्षयं राघवेण च ॥ 6.95.12 ॥
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्।
हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ 6.95.13 ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ 6.95.14 ॥
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा।
शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ॥ 6.95.15 ॥
हतो योजनबाहुश्च कबन्धो रुधिराशनः।
क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम् ॥ 6.95.16 ॥
जघान बलिनं रामः सहस्रनयनात्मजम्।
वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ॥ 6.95.17 ॥
ऋष्यमूके वसन् शैले दीनो भग्नमनोरथः।
सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ॥ 6.95.18 ॥
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्।
युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ 6.95.19 ॥
विभीषणवचः कुर्याद्यदि स्म धनदानुजः।
श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ॥ 6.95.20 ॥
अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः।
प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥ 6.95.21 ॥
मम पुत्रो मम भ्राता मम भर्ता रणे हतः।
इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ॥ 6.95.22 ॥
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः।
रणे रामेण शूरेण राक्षसाश्च पदातयः ॥ 6.95.23 ॥
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः।
हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥ 6.95.24 ॥
हतप्रवीरा रामेण निराशा जीविते वयम्।
अपश्यन्तो भयस्यान्तमनाथा विलपामहे ॥ 6.95.25 ॥
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः।
इदं भयं महाघोरमुत्पन्नं नावबुध्यते ॥ 6.95.26 ॥
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः।
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ॥ 6.95.27 ॥
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे।
कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ॥ 6.95.28 ॥
पितामहेन प्रीतेन देवदानवराक्षसैः।
रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ॥ 6.95.29 ॥
तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम्।
जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥ 6.95.30 ॥
पीड्यमानास्तु बलिना वरदानेन रक्षसा।
दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥ 6.95.31 ॥
देवतानां हितार्थाय महात्मा वै पितामहः।
उवाच देवताः सर्वा इदं तुष्टो महद्वचः ॥ 6.95.32 ॥
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः।
भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ॥ 6.95.33 ॥
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः।
वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ॥ 6.95.34 ॥
प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत्।
उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ॥ 6.95.35 ॥
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा।
भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ॥ 6.95.36 ॥
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः।
अयं निष्ठानको घोरः शोकेन समभिप्लुतः ॥ 6.95.37 ॥
तं न पश्यामहे लोके यो नः शरणदो भवेत्।
राघवेणोपसृष्टानां कालेनेव युगक्षये ॥ 6.95.38 ॥
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम्।
दवाग्निवेष्टितानां हि करेणूनां यथा वने ॥ 6.95.39 ॥
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना।
यत एव भयं दृष्टं तमेव शरणं गतः ॥ 6.95.40 ॥
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः।
विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥ 6.95.41 ॥