स प्रविश्य सभां राजा दीनः परमदुःखितः।
निषसादासने सिंहः क्रुद्ध इव श्वसन् ॥ 6.94.1 ॥
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः।
रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः ॥ 6.94.2 ॥
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः।
निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥ 6.94.3 ॥
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ।
वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥ 6.94.4 ॥
अथवाऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे।
भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ 6.94.5 ॥
इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः।
निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ॥ 6.94.6 ॥
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्।
शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥ 6.94.7 ॥
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः ॥ 6.94.8 ॥
स सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति।
रक्षसां वानराणां च तुमुलः समपद्यत ॥ 6.94.9 ॥
ते गदाभिर्विचित्राभिः प्राशैः खड्गैः परश्वधैः।
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥ 6.94.10 ॥
एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः।
रक्षसां वानराणां च शान्तं शोणितविस्रवैः ॥ 6.94.11 ॥
मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः।
शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ॥ 6.94.12 ॥
ध्वजवर्मरथानश्वान्नानाप्रहरणानि च।
आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे ॥ 6.94.13 ॥
केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः।
रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् ॥ 6.94.14 ॥
एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः।
अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ 6.94.15 ॥
तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः।
निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥ 6.94.16 ॥
राक्षसैर्युद्ध्यामानानां वानराणां महाचमूः।
शरण्यं शरणं याता रामं दशरथात्मजम् ॥ 6.94.17 ॥
ततो रामो महातेजा धनुरादाय वीर्यवान्।
प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ॥ 6.94.18 ॥
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे।
नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥ 6.94.19 ॥
कृतान्येव सुघोराणि रामेण रजनीचराः।
रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥ 6.94.20 ॥
चालयन्तं महानीकं विधमन्तं महारथान्।
ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ 6.94.21 ॥
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्।
बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥ 6.94.22 ॥
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्।
इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥ 6.94.23 ॥
एष हन्ति गजानीकमेष हन्ति महारथान्।
एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ॥ 6.94.24 ॥
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे।
अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥ 6.94.25 ॥
न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥ 6.94.26 ॥
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः।
पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ 6.94.27 ॥
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः।
अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥ 6.94.28 ॥
शरीरनाभिसत्त्वार्चिः शरीरं नेमिकार्मुकम्।
ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ॥ 6.94.29 ॥
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्।
ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ॥ 6.94.30 ॥
अनीकं दशसाहस्रं रथानां वातरंहसाम्।
अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥ 6.94.31 ॥
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्।
पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥ 6.94.32 ॥
दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः।
हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ 6.94.33 ॥
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः।
अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥ 6.94.34 ॥
हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्।
आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ॥ 6.94.35 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
साधु साध्विति रामस्य तत् कर्म समपूजयन् ॥ 6.94.36 ॥
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्।
विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥ 6.94.37 ॥
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च।
एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥ 6.94.38 ॥
निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा।
अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥ 6.94.39 ॥