०९३ रावणेन पुत्रमरणशोकः

ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम्।
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ 6.93.1 ॥
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः।
विभीषणसहायेन मिषतां नो महाद्युतिः ॥ 6.93.2 ॥
लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित्।
गतः स परमान् लोकान् शरैः सन्ताप्य लक्ष्मणम् ॥ 6.93.3 ॥
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।
घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ॥ 6.93.4 ॥
उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः।
पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥ 6.93.5 ॥
हा राक्षसचमूमुख्य मम वत्स महारथ।
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥ 6.93.6 ॥
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि।
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ॥ 6.93.7 ॥
अद्य वैवस्वतो राजा भूयो बहुमतो मम।
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ॥ 6.93.8 ॥
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥ 6.93.9 ॥
अद्य देवगणाः सर्वे लोकपालास्तथर्षयः।
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ॥ 6.93.10 ॥
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना।
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥ 6.93.11 ॥
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्।
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥ 6.93.12 ॥
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप।
मातरं मां च भार्यां च क्व गतोऽसि विहाय नः ॥ 6.93.13 ॥
मम नाम त्वया वीर गतस्य यमसादनम्।
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ 6.93.14 ॥
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे।
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ॥ 6.93.15 ॥
एवमादिविलापार्तं रावणं राक्षसाधिपम्।
आविवेश महान् कोपः पुत्रव्यसनसम्भवः ॥ 6.93.16 ॥
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः।
दीप्तं सन्दीपयामासुर्घर्मेऽर्कमिव रश्मयः ॥ 6.93.17 ॥
ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत।
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ॥ 6.93.18 ॥
कोपाद्विजृम्भमाणस्य वक्त्राद् व्यक्तमभिज्वलन्।
उत्पपात स भूयोऽग्निर्वृत्रस्य वदनादिव ॥ 6.93.19 ॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।
समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ॥ 6.93.20 ॥
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनाऽपि च।
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥ 6.93.21 ॥
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम्।
बभूव रूपं क्रुद्धस्य रुद्धस्येव दुरासदम् ॥ 6.93.22 ॥
तस्य क्रुद्धस्य नेत्राभ्यां प्राप्ततन्नस्रबिन्दवः।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ 6.93.23 ॥
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः।
यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ॥ 6.93.24 ॥
कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत।
तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ॥ 6.93.25 ॥
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्।
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥ 6.93.26 ॥
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः।
अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥ 6.93.27 ॥
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः।
तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ॥ 6.93.28 ॥
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥ 6.93.29 ॥
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्।
देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥ 6.93.30 ॥
तेन मामद्य संयुक्तं रथस्थमिह संयुगे।
प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरन्दरः ॥ 6.93.31 ॥
यत्तदाऽभिप्रसन्नेन सशरं कार्मुकं महत्।
देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ॥ 6.93.32 ॥
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम।
रामलक्ष्मणयोरेव वधाय परमाहवे ॥ 6.93.33 ॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः।
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥ 6.93.34 ॥
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः।
दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ॥ 6.93.35 ॥
मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।
किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ 6.93.36 ॥
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः।
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥ 6.93.37 ॥
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ॥ 6.93.38 ॥
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्।
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥ 6.93.39 ॥
रावणः पुत्रशोकेन भृशमाकुलचेतनः।
सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥ 6.93.40 ॥
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः।
ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः ॥ 6.93.41 ॥
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः।
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥ 6.93.42 ॥
बहवः शत्रवश्चापि संयुगेषु निपातिताः।
त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥ 6.93.43 ॥
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥ 6.93.44 ॥
तेषां सञ्जल्पमानानामशोकवनिकां गताम्।
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ॥ 6.93.45 ॥
वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः।
अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव ॥ 6.93.46 ॥
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता।
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ 6.93.47 ॥
निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम्।
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥ 6.93.48 ॥
यथाऽयं मामभिक्रुद्धः समभिद्रवति स्वयम्।
वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ 6.93.49 ॥
बहुशश्चोदयामास भर्तारं मामनुव्रताम्।
भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ॥ 6.93.50 ॥
सोऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः।
क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ 6.93.51 ॥
मन्निमित्तमनार्येण समरेऽद्य निपातितौ।
अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ॥ 6.93.52 ॥
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ।
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥ 6.93.53 ॥
हनूमतोऽपि यद्वाक्यं न कृतं क्षुद्रया मया ॥ 6.93.54 ॥
यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता।
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ 6.93.55 ॥
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति।
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ 6.93.56 ॥
सा हि जन्म च बाल्यं च यौवनं च महात्मनः।
धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ॥ 6.93.57 ॥
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना।
अग्निमारोक्ष्यते नूनमपो वाऽपि प्रवेक्ष्यति ॥ 6.93.58 ॥
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्।
यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ 6.93.59 ॥
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्।
रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ 6.93.60 ॥
सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम्।
निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥ 6.93.61 ॥
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज।
हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ॥ 6.93.62 ॥
वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा।
स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥ 6.93.63 ॥
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव।
त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥ 6.93.64 ॥
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ 6.93.65 ॥
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः।
हत्वा दशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ॥ 6.93.66 ॥
स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः।
गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः ॥ 6.93.67 ॥