०९२ सुषेणेन लक्ष्मणादिसेवा

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः।
बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥ 6.92.1 ॥
ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान्।
सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः ॥ 6.92.2 ॥
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ।
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥ 6.92.3 ॥
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च।
तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः ॥ 6.92.4 ॥
निष्टनन्निव चागम्य राघवाय महात्मने।
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥ 6.92.5 ॥
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना।
न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥ 6.92.6 ॥
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्।
प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ॥ 6.92.7 ॥
साधु लक्ष्मण तुष्टोऽस्मि कर्मणा सुकृतं कृतम्।
रावणेर्हि विनाशेन जितमित्युपधारय ॥ 6.92.8 ॥
स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम्।
लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ॥ 6.92.9 ॥
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।
भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ॥ 6.92.10 ॥
शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम्।
रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् ॥ 6.92.11 ॥
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्।
उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः ॥ 6.92.12 ॥
अद्य मन्ये हते पुत्रे रावणं निहतं युधि।
अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ॥ 6.92.13 ॥
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे।
छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यापश्रयः ॥ 6.92.14 ॥
विभीषणहनूमद्भयां कृतं कर्म महद्रणे।
अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः ॥ 6.92.15 ॥
निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः।
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ॥ 6.92.16 ॥
तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम्।
बलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥ 6.92.17 ॥
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।
न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ॥ 6.92.18 ॥
स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः।
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ॥ 6.92.19 ॥
सशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः।
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ॥ 6.92.20 ॥
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः।
ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ॥ 6.92.21 ॥
ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा।
तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ॥ 6.92.22 ॥
एवमुक्तस्तु रामेण महात्मा हरियूथपः।
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् ॥ 6.92.23 ॥
स तस्या गन्धमाघ्राय विशल्यः समपद्यत।
तथा निर्वेदनश्चैव संरूढव्रण एव च ॥ 6.92.24 ॥
विभीषणमुखानां च सुहृदां राघवाज्ञया।
सर्ववानरमुख्यानां चिकित्सां स तदाऽकरोत् ॥ 6.92.25 ॥
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः।
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥ 6.92.26 ॥
तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान्।
अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ॥ 6.92.27 ॥
अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा।
हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ॥ 6.92.28 ॥