०९१ इन्द्रजिदश्वमरणम्

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः।
इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥ 6.91.1 ॥
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्।
विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ 6.91.2 ॥
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः।
भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ॥ 6.91.3 ॥
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः।
स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥ 6.91.4 ॥
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः।
नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥ 6.91.5 ॥
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै।
अहं तु रथमास्थाय आगमिष्यामि संयुगम् ॥ 6.91.6 ॥
तथा भवन्तः कुर्वन्तु यथेमे काननौकसः।
न युद्ध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥ 6.91.7 ॥
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः।
प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥ 6.91.8 ॥
स रथं भूषयित्वा तु रुचिरं हेमभूषितम्।
प्रासासिशतसम्पूर्णं युक्तं परमवाजिभिः ॥ 6.91.9 ॥
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना।
आरुरोह महातेजा रावणिः समितिञ्जयः ॥ 6.91.10 ॥
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः।
निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ॥ 6.91.11 ॥
सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा।
आभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥ 6.91.12 ॥
वानराश्च महावीर्या राक्षसश्च विभीषणः।
विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ॥ 6.91.13 ॥
रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान्।
पातयामास बाणौघैः शतशोऽथ सहस्रशः ॥ 6.91.14 ॥
स मण्डलीकृतधनू रावणिः समितिञ्जयः।
हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः ॥ 6.91.15 ॥
ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः।
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः ॥ 6.91.16 ॥
ततः समरकोपेन ज्वलितो रघुनन्दनः।
चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ॥ 6.91.17 ॥
सोऽन्यत् कार्मुकमादय सज्यं चक्रे त्वरन्निव।
तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥ 6.91.18 ॥
अथैनं छिन्नधन्वानमाशीविषविषोपमैः।
विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ॥ 6.91.19 ॥
ते तस्य कायं निर्भिद्य महाकार्मुकनिस्सृताः।
निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ॥ 6.91.20 ॥
स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः।
जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ॥ 6.91.21 ॥
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः।
ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ॥ 6.91.22 ॥
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः।
अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ॥ 6.91.23 ॥
दर्शयामास च तदा रावणिं रघुनन्दनः।
असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥ 6.91.24 ॥
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ॥ 6.91.25 ॥
अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्।
राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥ 6.91.26 ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना।
असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ॥ 6.91.27 ॥
सारथेरस्य च रणे रथिनो रथसत्तमः।
शिरो जहार धर्मात्मा भल्लेनानतपर्वणा ॥ 6.91.28 ॥
असूतास्ते हयास्तत्र रथमूहुरविक्लवाः।
मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ॥ 6.91.29 ॥
अमर्षवशमापन्नः सौमित्रिर्द्दढविक्रमः।
प्रत्यविद्ध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे ॥ 6.91.30 ॥
अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली।
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् ॥ 6.91.31 ॥
ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः।
विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ॥ 6.91.32 ॥
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्।
अविध्यत् परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥ 6.91.33 ॥
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः।
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥ 6.91.34 ॥
तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः।
विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥ 6.91.35 ॥
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ।
अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ॥ 6.91.36 ॥
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ।
रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ॥ 6.91.37 ॥
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ।
घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥ 6.91.38 ॥
ततः समरकोपेन संयुक्तो रावणात्मजः।
विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ॥ 6.91.39 ॥
अयोमुखैस्त्रिर्भिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्।
एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ॥ 6.91.40 ॥
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्।
विभीषणो महातेजा रावणेः स दुरात्मनः ॥ 6.91.41 ॥
स हताश्वादवप्लुत्य रथान्निहतसारथेः।
रथशक्तिं महातेजाः पितृव्याय मुमोच ह ॥ 6.91.42 ॥
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः।
चिच्छेद निशितैर्बाणैर्दशधा साऽपतद्भुवि ॥ 6.91.43 ॥
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः।
वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ॥ 6.91.44 ॥
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः।
बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ 6.91.45 ॥
स पितृव्याय सङ्क्रुद्ध इन्द्रजिच्छरमाददे।
उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ 6.91.46 ॥
तं समीक्ष्य महातेजा महेषुं तेन संहितम्।
लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः ॥ 6.91.47 ॥
कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना।
दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ॥ 6.91.48 ॥
तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः।
विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ॥ 6.91.49 ॥
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।
विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ 6.91.50 ॥
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ।
मुखेन मुखमाहत्य सन्निपेततुरोजसा ॥ 6.91.51 ॥
सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः।
सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत् ॥ 6.91.52 ॥
तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च।
सङ्ग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ॥ 6.91.53 ॥
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि।
व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥ 6.91.54 ॥
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ॥ 6.91.55 ॥
रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः।
तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ॥ 6.91.56 ॥
ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः।
आग्नेयं सन्दधे दीप्तं स लोकं सङ्क्षिपन्निव ॥ 6.91.57 ॥
सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ॥ 6.91.58 ॥
अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।
आसुरं शत्रुनाशाय घोरमस्त्रं समाददे ॥ 6.91.59 ॥
तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः।
शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः ॥ 6.91.60 ॥
अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम्।
माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥ 6.91.61 ॥
तयोः सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम्।
गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ 6.91.62 ॥
भैरवाभिरुते भीमे युद्धे वानररक्षसाम्।
भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥ 6.91.63 ॥
ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः।
शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥ 6.91.64 ॥
अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः।
हुताशनसमस्पर्शं रावणात्मजदारणम् ॥ 6.91.65 ॥
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्।
सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ 6.91.66 ॥
दुरावारं दुर्विषह्यं राक्षसानां भयावहम्।
आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ॥ 6.91.67 ॥
येन शक्रो महातेजा दानवानजयत् प्रभुः।
पुरा दैवासुरे युद्धे वीर्यवान् हरिवाहनः ॥ 6.91.68 ॥
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।
शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसन्दधे ॥ 6.91.69 ॥
सन्धायामित्रदलनं विचकर्ष शरासनम्।
सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ॥ 6.91.70 ॥
सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्।
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥ 6.91.71 ॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि।
पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥ 6.91.72 ॥
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।
ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ॥ 6.91.73 ॥
स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।
प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥ 6.91.74 ॥
तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्।
तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥ 6.91.75 ॥
हतस्तु निपपाताशु धरण्यां रावणात्मजः।
कवची सशिरस्त्राणो विध्वस्तः सशरासनः ॥ 6.91.76 ॥
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः।
हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा ॥ 6.91.77 ॥
अथान्तरिक्षे देवानामृषीणां च महात्मनाम्।
अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ॥ 6.91.78 ॥
पतितं तमभिज्ञाय राक्षसी सा महाचमूः।
वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥ 6.91.79 ॥
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः।
लङ्कामभिमुखाः सस्त्रुर्नष्टसञ्ज्ञाः प्रधाविताः ॥ 6.91.80 ॥
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः।
त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान् ॥ 6.91.81 ॥
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः।
समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ॥ 6.91.82 ॥
हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ।
राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ॥ 6.91.83 ॥
यथाऽस्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।
तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥ 6.91.84 ॥
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः।
स बभूव महातेजा व्यपास्तगतजीवितः ॥ 6.91.85 ॥
प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान्।
बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥ 6.91.86 ॥
हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः।
जगाम निहते तस्मिन् राक्षसे पापकर्मणि ॥ 6.91.87 ॥
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ॥ 6.91.88 ॥
नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥ 6.91.89 ॥
ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा।
प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि ॥ 6.91.90 ॥
शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ॥ 6.91.91 ॥
ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः।
विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ 6.91.92 ॥
ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः।
तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ॥ 6.91.93 ॥
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः।
विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥ 6.91.94 ॥
क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।
लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥ 6.91.95 ॥
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः।
लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ॥ 6.91.96 ॥
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः।
चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥ 6.91.97 ॥
तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म।
परममुपलभन् मनः प्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ॥ 6.91.98 ॥