०९० विभीषणेन रक्षोहननम्

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नराक्षसौ।
प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ॥ 6.90.1 ॥
तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली।
शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ॥ 6.90.2 ॥
ततो विस्फारयामास महद्धनुरवस्थितः।
उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ॥ 6.90.3 ॥
ते शराः शिखिसङ्काशा निपतन्तः समाहिताः।
राक्षसान् दारयामासुर्वज्राणीव महागिरीन् ॥ 6.90.4 ॥
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः।
चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ॥ 6.90.5 ॥
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः।
बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥ 6.90.6 ॥
ततः सञ्चोदयानो वै हरीन् रक्षो रणप्रियान्।
उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ 6.90.7 ॥
एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः।
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ 6.90.8 ॥
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि।
रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ॥ 6.90.9 ॥
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः।
कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ 6.90.10 ॥
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः।
सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥ 6.90.11 ॥
संह्रादी विकटो निघ्नस्तपनो दम एव च।
प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥ 6.90.12 ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्।
विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥ 6.90.13 ॥
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः।
कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥ 6.90.14 ॥
एतान्निहत्यातिबलान् बहून् राक्षससत्तमान्।
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥ 6.90.15 ॥
एतावदेव शेषं वो जेतव्यमिह वानराः।
हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ 6.90.16 ॥
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम।
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ 6.90.17 ॥
तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति।
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् ॥ 6.90.18 ॥
इति तेनातियशसा राक्षसेनाभिचोदिताः।
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः ॥ 6.90.19 ॥
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः।
मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः ॥ 6.90.20 ॥
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः।
अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥ 6.90.21 ॥
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः।
परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः ॥ 6.90.22 ॥
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः।
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥ 6.90.23 ॥
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम्।
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥ 6.90.24 ॥
[स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः ॥ ] रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥ 6.90.25 ॥
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि।
लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ॥ 6.90.26 ॥
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ।
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥ 6.90.27 ॥
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ।
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥ 6.90.28 ॥
न ह्यादानं न सन्धानं धनुषो वा परिग्रहः।
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥ 6.90.29 ॥
न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्।
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ 6.90.30 ॥
चापवेगविनिर्मुक्तबाणजालैः समन्ततः।
अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ॥ 6.90.31 ॥
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्।
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥ 6.90.32 ॥
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः।
निरन्तरमिवाकाशं बभूव तमसावृतम् ॥ 6.90.33 ॥
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः।
दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ॥ 6.90.34 ॥
तमसा संवृतं सर्वमासीद्भीमतरं महत्।
अस्तं गते सहस्रांशौ संवृतं तमसेव हि ॥ 6.90.35 ॥
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः।
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ॥ 6.90.36 ॥
न तदानीं ववौ वायुर्न च जज्वाल पावकः।
स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ॥ 6.90.37 ॥
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः ॥ 6.90.38 ॥
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्।
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ 6.90.39 ॥
ततोऽपरेण भल्लेन शितेन निशितेन च।
सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥ 6.90.40 ॥
महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः।
स तेन बाणाशनिना तलशब्दानुनादिना ॥ 6.90.41 ॥
लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् ॥ 6.90.42 ॥
स यन्तरि महातेजा हते मन्दोदरीसुतः ॥ 6.90.43 ॥
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्।
तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ॥ 6.90.44 ॥
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः।
धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ॥ 6.90.45 ॥
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः।
अर्दयामास बाणौघैर्विचरन्तमभीतवत् ॥ 6.90.46 ॥
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः।
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥ 6.90.47 ॥
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः।
ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥ 6.90.48 ॥
ततः प्रमाथी शरभो रभसो गन्धमादनः।
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥ 6.90.49 ॥
ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः।
चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ॥ 6.90.50 ॥
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः।
मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ॥ 6.90.51 ॥
ते हया मथिता भग्ना व्यसवो धरणीं गताः।
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ॥ 6.90.52 ॥
स हताश्वादवप्लुत्य रथान्मथितसारथेः।
शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ 6.90.53 ॥
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः।
सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ॥ 6.90.54 ॥