०८९ लक्ष्मण-इन्द्रजिद्युद्धम्

ततः शरं दाशरथिः सन्धायामित्रकर्शनः।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ 6.89.1 ॥
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ 6.89.2 ॥
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्।
सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥ 6.89.3 ॥
निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे।
त्वर तेन महाबोहो भग्न एष न संशयः ॥ 6.89.4 ॥
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान्।
मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ॥ 6.89.5 ॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।
मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ॥ 6.89.6 ॥
उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः।
ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ 6.89.7 ॥
सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः।
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ 6.89.8 ॥
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्।
निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥ 6.89.9 ॥
युवां खलु महायुद्धे शक्राशनिसमैः शरैः।
शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरस्सरौ ॥ 6.89.10 ॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।
गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ॥ 6.89.11 ॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।
अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ 6.89.12 ॥
इत्युक्त्वा सप्तभिबाणैरभिविव्याध लक्ष्मणम्।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ 6.89.13 ॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।
क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥ 6.89.14 ॥
अचिन्तयित्वा प्रहसन् नैतत् किञ्चिदिति ब्रुवन्।
मुमोच स शरान् घोरान् सङ्गृह्य नरपुङ्गवः ॥ 6.89.15 ॥
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणौ युधि।
नैवं रणगताः शूराः प्रहरन्ते निशाचर ॥ 6.89.16 ॥
लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव।
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ॥ 6.89.17 ॥
इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥ 6.89.18 ॥
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम्।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ 6.89.19 ॥
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।
इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ॥ 6.89.20 ॥
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः।
बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥ 6.89.21 ॥
व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च।
कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ 6.89.22 ॥
अभीक्ष्णं निश्वसन्तौ तौ युद्ध्येतां तुमुलं युधि।
शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ 6.89.23 ॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥ 6.89.24 ॥
तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ।
स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ 6.89.25 ॥
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्वनम्।
सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥ 6.89.26 ॥
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ 6.89.27 ॥
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः।
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ 6.89.28 ॥
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च।
उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ 6.89.29 ॥
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः।
प्रकम्पयन् जनं घोरो निर्घात इव दारुणः ॥ 6.89.30 ॥
स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः।
सुघोरयोर्निष्टनतोर्गगने मेगयोर्यथा ॥ 6.89.31 ॥
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ।
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥ 6.89.32 ॥
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि।
असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ॥ 6.89.33 ॥
अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे।
बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः ॥ 6.89.34 ॥
स बभूव रणो घोरस्तयोर्बाणमयश्चयः।
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ 6.89.35 ॥
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।
सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ॥ 6.89.36 ॥
चक्रुतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः।
इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ॥ 6.89.37 ॥
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ 6.89.38 ॥
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।
शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ॥ 6.89.39 ॥
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ 6.89.40 ॥
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ 6.89.41 ॥
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य।
प्रियहितमुपपादयन् महौजाः समरमुपेत्य विभीषणोऽवतस्थे ॥ 6.89.42 ॥