०८८ लक्ष्मण-इन्द्रजिद्युद्धम्

विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः।
अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥ 6.88.1 ॥
उद्यतायुधनिस्त्रिंशो रथे सुसमलङ्कृते।
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ 6.88.2 ॥
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम्।
धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥ 6.88.3 ॥
अलङ्कृतममित्रघ्नं राघवस्यानुजं बली।
हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ॥ 6.88.4 ॥
उवाचैनं समारब्धः सौमित्रिं सविभीषणम्।
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् ॥ 6.88.5 ॥
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्।
मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ॥ 6.88.6 ॥
अद्य वो मामका बाणा महाकार्मुकनिस्सृताः।
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥ 6.88.7 ॥
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यष्टितोमरैः।
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥ 6.88.8 ॥
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि।
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥ 6.88.9 ॥
रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः।
शायितौ स्थो मया भूमौ विसञ्ज्ञौ सपुरस्सरौ ॥ 6.88.10 ॥
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम्।
आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ॥ 6.88.11 ॥
तच्छुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्णस्तदा।
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥ 6.88.12 ॥
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ 6.88.13 ॥
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्।
वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ॥ 6.88.14 ॥
अन्तर्धानगतेनाजौ यस्त्वयाऽऽचरितस्तदा।
तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ 6.88.15 ॥
यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस।
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥ 6.88.16 ॥
एवमुक्तो धनुर्भीमं परामृश्य महाबलः।
ससर्ज निशितान् बाणानिन्द्रजित् समितिञ्जयः ॥ 6.88.17 ॥
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः।
सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥ 6.88.18 ॥
शरैरतिमहावेगैर्वेगवान् रावणात्मजः।
सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ॥ 6.88.19 ॥
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः।
शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ॥ 6.88.20 ॥
इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च।
विनद्य सुमहानादमिदं वचनमब्रवीत् ॥ 6.88.21 ॥
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः।
आदास्यन्तेऽद्य सौमित्रे जिवितं जिवितान्तगाः ॥ 6.88.22 ॥
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण।
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥ 6.88.23 ॥
क्षत्रबन्धुं सदानार्यं रामः परमादुर्मतिः।
भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ॥ 6.88.24 ॥
विशस्तकवचं भूमौ व्यपविद्धशरासनम्।
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥ 6.88.25 ॥
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्।
हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ॥ 6.88.26 ॥
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्माऽसि राक्षस।
अथ कस्माद्वदस्येतत् सम्पादय सुकर्मणा ॥ 6.88.27 ॥
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस।
कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ॥ 6.88.28 ॥
अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवाक्षिपन्।
अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम ॥ 6.88.29 ॥
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान्।
निजघान महावेगान् लक्ष्मणो राक्षसोरसि ॥ 6.88.30 ॥
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः।
नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ॥ 6.88.31 ॥
स शरैराहतस्तेन सरोषो रावणात्मजः।
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥ 6.88.32 ॥
स बभूव तदा भीमो नरराक्षससिंहयोः।
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ॥ 6.88.33 ॥
उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ ॥ 6.88.34 ॥
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ।
उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ 6.88.35 ॥
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ॥ 6.88.36 ॥
बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ।
युयुधाते महात्मानौ तदा केसरिणाविव ॥ 6.88.37 ॥
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।
नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ 6.88.38 ॥
सुसम्प्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ।
परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ॥ 6.88.39 ॥
अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शितशस्त्रधारिणौ।
अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ॥ 6.88.40 ॥