एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः।
धनुष्पाणिनमादाय त्वरमाणो जगाम ह ॥ 6.87.1 ॥
अविदूरं ततो गत्वा प्रविश्य च महद्वनम्।
दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ 6.87.2 ॥
नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम्।
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ 6.87.3 ॥
इहोपहारं भूतानां बलवान् रावणात्मजः।
उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ॥ 6.87.4 ॥
अदृश्यः सर्वभूतानां ततो भवति राक्षसः।
निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ॥ 6.87.5 ॥
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम्।
विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ 6.87.6 ॥
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः।
बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ॥ 6.87.7 ॥
स रथेनाग्निवर्णेन बलवान् रावणात्मजः।
इन्द्रजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ॥ 6.87.8 ॥
तमुवाच महातेजाः पौलस्त्यमपराजितम्।
समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ 6.87.9 ॥
एवमुक्तो महातेजा मनस्वी रावणात्मजः।
अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ 6.87.10 ॥
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम।
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ 6.87.11 ॥
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते।
प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ॥ 6.87.12 ॥
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ 6.87.13 ॥
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्।
क्वच स्वजनसंवासः क्वच नीचपराश्रयः ॥ 6.87.14 ॥
गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा।
निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥ 6.87.15 ॥
यः स्वपक्षं परित्यज्य परपक्षं निषेवते।
स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥ 6.87.16 ॥
निरनुक्रोशता चेयं यादृशी ते निशाचर।
स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ 6.87.17 ॥
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ॥ 6.87.18 ॥
अजानन्निव मच्छीलं किं राक्षस विकत्थसे।
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ॥ 6.87.19 ॥
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।
गुणोऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ॥ 6.87.20 ॥
न रमे दारुणेनाहं न चाधर्मेण वै रमे।
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ 6.87.21 ॥
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्।
त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ 6.87.22 ॥
हिंसापरस्वहरणे परदाराभिमर्शनम्।
त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ॥ 6.87.23 ॥
परस्वानां च हरणं परदाराभिमर्शनम्।
सुहृदामतिशङ्का च त्रयो दोषाः क्षयाबहाः ॥ 6.87.24 ॥
महर्षिणां वधो घोरः सर्वदेवैश्च विग्रहः।
अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥ 6.87.25 ॥
गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः।
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ॥ 6.87.26 ॥
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ 6.87.27 ॥
अतिमानी च बालश्च दुर्विनीतश्च राक्षस।
बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ 6.87.28 ॥
अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि।
प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥ 6.87.29 ॥
युद्ध्यस्व नरदेवेन लक्ष्मणेन रणे सह।
हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ॥ 6.87.30 ॥
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्।
न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ॥ 6.87.31 ॥