तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः।
नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ 6.85.1 ॥
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः।
विभीषणमुपासीनमुवाच कपिसन्निधौ ॥ 6.85.2 ॥
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण।
भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ 6.85.3 ॥
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः।
यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ 6.85.4 ॥
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्।
तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ 6.85.5 ॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः।
विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ 6.85.6 ॥
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ॥ 6.85.7 ॥
त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम्।
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ॥ 6.85.8 ॥
तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी।
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ॥ 6.85.9 ॥
प्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः।
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥ 6.85.10 ॥
साध्वयं यातु सौमित्रिर्बलेन महता वृतः।
निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ॥ 6.85.11 ॥
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः।
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ॥ 6.85.12 ॥
तेन वीर्येण तपसा वरदानात् स्वयम्भुवः।
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ 6.85.13 ॥
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम्।
यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ॥ 6.85.14 ॥
त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः।
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ 6.85.15 ॥
वधायेन्द्रजितो राम सन्दिशस्व महाबल।
हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ॥ 6.85.16 ॥
विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ 6.85.17 ॥
स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः।
करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ॥ 6.85.18 ॥
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः।
न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ॥ 6.85.19 ॥
राघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः।
लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ 6.85.20 ॥
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः।
हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ 6.85.21 ॥
जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः।
जहि तं राक्षससुतं मायाबलविशारदम् ॥ 6.85.22 ॥
अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः।
अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ 6.85.23 ॥
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः।
जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ 6.85.24 ॥
सन्नद्धः कवची खड्गी सशरो हेमचापधृत्।
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ 6.85.25 ॥
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्।
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ 6.85.26 ॥
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः।
विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ 6.85.27 ॥
स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः।
स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥ 6.85.28 ॥
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्।
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ 6.85.29 ॥
विभीषणेन सहितो राजपुत्रः प्रतापवान्।
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ 6.85.30 ॥
वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः।
विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ॥ 6.85.31 ॥
महता हरिसैन्येन सवेगमभिसंवृतः।
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ 6.85.32 ॥
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः।
राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ॥ 6.85.33 ॥
स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः।
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ 6.85.34 ॥
विभीषणेन सहितो राजपुत्रः प्रतापवान्।
अङ्गदेन च वीरेण तथाऽनिलसुतेन च ॥ 6.85.35 ॥
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च।
प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ 6.85.36 ॥