०८४ विभीषणेन इन्द्रजिद्रहस्यभेदनम्

राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले।
निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ॥ 6.84.1 ॥
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः।
नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥ 6.84.2 ॥
सोऽभिगम्य महात्मानं राघवं शोकलालसम्।
वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥ 6.84.3 ॥
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।
ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥ 6.84.4 ॥
व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः।
अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥ 6.84.5 ॥
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।
लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥ 6.84.6 ॥
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः।
हनुमद्वचनात् सौम्य ततो मोहमुपागतः ॥ 6.84.7 ॥
कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ॥ 6.84.8 ॥
मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता।
तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ 6.84.9 ॥
अभिप्रायं तु जानामि रावणस्य दुरात्मनः।
सीतां प्रति महाबाहो न च घातं करिष्यति ॥ 6.84.10 ॥
याच्यमानस्तु बहुशो मया हितचिकीर्षुणा।
वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ॥ 6.84.11 ॥
नैव साम्ना न दानेन न भेदेन कुतो युधा।
सा द्रुष्टुमपि शक्येत नैव चान्येन केनचित् ॥ 6.84.12 ॥
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।
चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥ 6.84.13 ॥
हुतवानुपयातो हि देवैरपि सवासवैः।
दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ॥ 6.84.14 ॥
तेन मोहयता नूनमेषा माया प्रयोजिता।
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥ 6.84.15 ॥
त्यजेमं नरशार्दूल मिथ्यासन्तापमागतम्।
सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥ 6.84.16 ॥
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।
लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ 6.84.17 ॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः।
त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति ॥ 6.84.18 ॥
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।
पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ 6.84.19 ॥
तं सन्दिश महावाहो लक्ष्मणं शुभलक्षणम्।
राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ 6.84.20 ॥
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमोऽद्य कर्तुम्।
त्वमति सृज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥ 6.84.21 ॥
समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृस्यः समरे सुरासुरैः।
युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ॥ 6.84.22 ॥