०८३ इन्द्रजिता मायासीताकृतिवधः

राघवश्चापि विपुलं तं राक्षसवनौकसाम्।
श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ 6.83.1 ॥
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम्।
श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ 6.83.2 ॥
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः।
क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ 6.83.3 ॥
ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः।
आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ॥ 6.83.4 ॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि।
वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥ 6.83.5 ॥
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्।
नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥ 6.83.6 ॥
स तेन हरिसैन्येन सन्निकर्षं महायशाः।
शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ 6.83.7 ॥
समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः।
जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः ॥ 6.83.8 ॥
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम।
तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ 6.83.9 ॥
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः।
निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ 6.83.10 ॥
तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम्।
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ 6.83.11 ॥
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः।
प्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम् ॥ 6.83.12 ॥
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः।
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ 6.83.13 ॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्।
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ 6.83.14 ॥
भूतानां स्थावराणां च जङ्गमानां च दर्शनम्।
यथाऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ 6.83.15 ॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्।
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ 6.83.16 ॥
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्।
भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ 6.83.17 ॥
तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि।
धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ 6.83.18 ॥
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः।
यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥ 6.83.19 ॥
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः।
धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥ 6.83.20 ॥
यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः।
क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ 6.83.21 ॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव।
वधकर्म हतोऽधर्मः स हतः कं वधिष्यति ॥ 6.83.22 ॥
अथवा विहितेनायं हन्यते हन्ति वा परम्।
विधिरालिप्यते तेन न स पापेन कर्मणा ॥ 6.83.23 ॥
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता।
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ 6.83.24 ॥
यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन।
त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ॥ 6.83.25 ॥
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते।
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ 6.83.26 ॥
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ 6.83.27 ॥
अथ चेत् सत्यवचनं धर्मः किल परन्तप।
अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ 6.83.28 ॥
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप।
न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ 6.83.29 ॥
अधर्मसंश्रितो धर्मो विनाशयति राघव।
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ 6.83.30 ॥
मम चेदं मतं तात धर्मोऽयमिति राघव।
धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ 6.83.31 ॥
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ 6.83.32 ॥
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ 6.83.33 ॥
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः।
पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ 6.83.34 ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥ 6.83.35 ॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्।
यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ 6.83.36 ॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया।
राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ 6.83.37 ॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ 6.83.38 ॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ 6.83.39 ॥
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्।
तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ 6.83.40 ॥
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते।
रक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥ 6.83.41 ॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।
कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ 6.83.42 ॥
उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत।
किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ 6.83.43 ॥
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः।
सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ 6.83.44 ॥