०८२ हनुमता युद्धे कपिसैन्यनिर्वहणम्

श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्।
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ 6.82.1 ॥
तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः।
विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ॥ 6.82.2 ॥
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ॥ 6.82.3 ॥
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ 6.82.4 ॥
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः।
शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ॥ 6.82.5 ॥
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ 6.82.6 ॥
स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ 6.82.7 ॥
स राक्षसानां कदनं चकार सुमहाकपिः।
वृतो वानरसैन्येन कालान्तकयमोपमः ॥ 6.82.8 ॥
स तु कोपेन चाविष्टः शोकेन च महाकपिः।
हनुमान् रावणिरथेऽपातयन्महतीं शिलाम् ॥ 6.82.9 ॥
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा।
विधेयाश्वसमायुक्तः सुदूरमपवाहितः ॥ 6.82.10 ॥
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्।
विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता ॥ 6.82.11 ॥
पातितायां शिलायां तु रक्षसां व्यथिता चमूः।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ 6.82.12 ॥
तमभ्यधावञ्छतशो नदन्तः काननौकसः ॥ 6.82.13 ॥
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः।
क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ॥ 6.82.14 ॥
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः।
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ॥ 6.82.15 ॥
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः।
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ॥ 6.82.16 ॥
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्।
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ 6.82.17 ॥
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः।
जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः ॥ 6.82.18 ॥
शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः।
ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ॥ 6.82.19 ॥
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः।
हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ॥ 6.82.20 ॥
स निवार्य परानीकमब्रवीत्तान् वनौकसः।
हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम् ॥ 6.82.21 ॥
त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः।
यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ॥ 6.82.22 ॥
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च।
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ॥ 6.82.23 ॥
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्।
शनैः शनैरसन्त्रस्तः सबलः सन्न्यवर्तत ॥ 6.82.24 ॥
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः।
स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ॥ 6.82.25 ॥
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ॥ 6.82.26 ॥
यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा।
हूयमानः प्रजज्वाल मांसशोणितभुक् तदा ॥ 6.82.27 ॥
सोऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः।
सन्ध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ॥ 6.82.28 ॥
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ 6.82.29 ॥