विज्ञाय तु मनस्तस्य राघवस्य महात्मनः।
सन्निवृत्याहवात्तस्मात् संविवेश पुरं ततः ॥ 6.81.1 ॥
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्।
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥ 6.81.2 ॥
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः।
इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥ 6.81.3 ॥
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ 6.81.4 ॥
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः।
बलेन महताऽऽवृत्य तस्या वधमरोचयत् ॥ 6.81.5 ॥
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः।
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ 6.81.6 ॥
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः।
उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ॥ 6.81.7 ॥
हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः।
प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ 6.81.8 ॥
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे।
एकवेणीधरां दीनामुपवासकृशाननाम् ॥ 6.81.9 ॥
परिक्लिष्टैकवसनाममृजां राघवप्रियाम्।
रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ 6.81.10 ॥
तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु।
बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥ 6.81.11 ॥
तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम्।
बाष्पपर्याकुलमुखो हनुमान् व्यथितोऽभवत् ॥ 6.81.12 ॥
सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम्।
किं समर्थितमस्येति चिन्तयन् स महाकपिः ॥ 6.81.13 ॥
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ 6.81.14 ॥
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।
कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥ 6.81.15 ॥
तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः।
क्रोशन्तीं राम रामेति मायया योजितां रथे ॥ 6.81.16 ॥
गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः।
शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः ॥ 6.81.17 ॥
तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्।
अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥ 6.81.18 ॥
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः।
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥ 6.81.19 ॥
धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी ॥ 6.81.20 ॥
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम।
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥ 6.81.21 ॥
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली।
किं तवैषाऽपराद्धा हि यदेनां हन्तुमिच्छसि ॥ 6.81.22 ॥
सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन।
वधार्ह कर्मणाऽनेन मम हस्तगतो ह्यसि ॥ 6.81.23 ॥
ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः।
इह जिवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे ॥ 6.81.24 ॥
इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः।
अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ 6.81.25 ॥
आपतन्तं महावीर्यं तदनीकं वनौकसाम्।
रक्षसां भीमवेगानामनीकं तु न्यवारयत् ॥ 6.81.26 ॥
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्।
हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह ॥ 6.81.27 ॥
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः।
तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ॥ 6.81.28 ॥
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर।
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥ 6.81.29 ॥
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम।
पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् ॥ 6.81.30 ॥
तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा।
शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ॥ 6.81.31 ॥
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना।
तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ॥ 6.81.32 ॥
मया रामस्य पश्येमां कोपेन च निषूदिताम्।
एषा विशस्ता वैदेही विफलो वः परिश्रमः ॥ 6.81.33 ॥
ततः खड्गेन महता हत्वा तामिन्द्रिजित् स्वयम्।
हृष्टः स रथमास्थाय विननाद महास्वनम् ॥ 6.81.34 ॥
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः।
व्यादितास्यस्य नदतस्तहुर्गं संश्रितस्य च ॥ 6.81.35 ॥
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः।
तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ॥ 6.81.36 ॥