०८० रावणेन इन्द्रजित्प्रेषणम्

मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः।
क्रोधेन महताऽऽविष्टो दन्तान् कटकटापयन् ॥ 6.80.1 ॥
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।
आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥ 6.80.2 ॥
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ 6.80.3 ॥
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ 6.80.4 ॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।
यज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ॥ 6.80.5 ॥
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ 6.80.6 ॥
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ 6.80.7 ॥
सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवितः ॥ 6.80.8 ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ 6.80.9 ॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः।
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥ 6.80.10 ॥
हुत्वाऽग्निं तर्पयित्वा च देवदानवराक्षसान्।
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ 6.80.11 ॥
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः।
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ 6.80.12 ॥
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।
मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ॥ 6.80.13 ॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः।
बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥ 6.80.14 ॥
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।
स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ 6.80.15 ॥
सोऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः।
हुत्वाऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ 6.80.16 ॥
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने।
जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ 6.80.17 ॥
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्।
करिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ 6.80.18 ॥
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः।
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ 6.80.19 ॥
स ददर्श महावीर्यो नागौ त्रिशिरसाविव।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ 6.80.20 ॥
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम्।
सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ 6.80.21 ॥
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ।
अचक्षुर्विषये तिष्ठन् विव्याध निशितैः सऱैः ॥ 6.80.22 ॥
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ 6.80.23 ॥
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।
तमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ॥ 6.80.24 ॥
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।
दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ॥ 6.80.25 ॥
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।
शश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ 6.80.26 ॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्।
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ 6.80.27 ॥
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम्।
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ 6.80.28 ॥
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।
हेमपुङ्खान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥ 6.80.29 ॥
अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।
निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ 6.80.30 ॥
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ।
तानिषून् पततो भल्लेरनेकैर्निचकृन्ततुः ॥ 6.80.31 ॥
यतो हि ददृशाते तौ शरान्निपततः शितान्।
ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ 6.80.32 ॥
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन्।
विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ॥ 6.80.33 ॥
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः।
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ 6.80.34 ॥
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान्।
न चान्यद्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ॥ 6.80.35 ॥
तेन विद्धाश्च हरयो निहताश्च गतासवः।
बभूवुः शतशस्तत्र पतिता धरणीतले ॥ 6.80.36 ॥
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत्।
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ 6.80.37 ॥
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ 6.80.38 ॥
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।
पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ 6.80.39 ॥
अस्यैव तु वधे यत्नं करिष्यावो महाबल।
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ 6.80.40 ॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ 6.80.41 ॥
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्स्थलं वा।
एवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ 6.80.42 ॥
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः।
वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ 6.80.43 ॥