०७९ राम-मकराक्षयुद्धम्

निर्गतं मकाराक्षं ते दृष्ट्वा वानरयूथपाः।
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ 6.79.1 ॥
ततः प्रवृत्तं सुमहत् तद्युद्धं रोमहर्षणम्।
निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ 6.79.2 ॥
वृक्षशूलनिपातैश्च शिलापरिघपातनैः।
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥ 6.79.3 ॥
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः।
पट्टिशैर्भिन्दिपालैश्च निर्घातैश्च समन्ततः ॥ 6.79.4 ॥
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा।
कदनं कपिवीराणां चक्रुस्ते रजनीचराः ॥ 6.79.5 ॥
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः।
सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ 6.79.6 ॥
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान्।
नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ॥ 6.79.7 ॥
विद्रवत्सु तदा तेषु वानरेषु समन्ततः।
रामस्तान् वारयामास शरवर्षेण राक्षसान् ॥ 6.79.8 ॥
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः।
क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ॥ 6.79.9 ॥
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते।
त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ॥ 6.79.10 ॥
यत्तदा दण्डकारण्ये पितरं हतवान् मम।
मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषोऽभिवर्धते ॥ 6.79.11 ॥
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव।
यन्मयाऽसि न दृष्टस्त्वं तस्मिन् काले महावने ॥ 6.79.12 ॥
दिष्ट्याऽसि दर्शनं राम मम त्वं प्राप्तवानिह।
काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ 6.79.13 ॥
अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः।
ये त्वया निहता वीराः सह तैश्च समेष्यसि ॥ 6.79.14 ॥
बहुनाऽत्र किमुक्तेन शृणु राम वचो मम।
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ 6.79.15 ॥
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे।
अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ॥ 6.79.16 ॥
मकराक्षवचः क्षुत्वा रामो दशरथात्मजः।
अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ॥ 6.79.17 ॥
कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु।
न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥ 6.79.18 ॥
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः।
त्रिशिरा दूषणश्चैव दण्डके निहता मया ॥ 6.79.19 ॥
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः।
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ॥ 6.79.20 ॥
राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः।
बाणौघानमुचत्तस्मै राघवाय रणाजिरे ॥ 6.79.21 ॥
तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा।
निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ 6.79.22 ॥
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा।
रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ॥ 6.79.23 ॥
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा।
धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥ 6.79.24 ॥
देवदानवगन्धर्वाः किन्नराश्च महोरगाः।
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ 6.79.25 ॥
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम्।
कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥ 6.79.26 ॥
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे।
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥ 6.79.27 ॥
बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा।
सञ्छन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ 6.79.28 ॥
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः।
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥ 6.79.29 ॥
भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्।
विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः ॥ 6.79.30 ॥
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना।
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ 6.79.31 ॥
विभ्राम्य तु महच्छूलं प्रज्वलत्तन्निशाचरः।
स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ॥ 6.79.32 ॥
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्।
बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ॥ 6.79.33 ॥
स च्छिन्नो नैकाधा शूलो दिव्यहाटकमण्डितः।
व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥ 6.79.34 ॥
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।
साधु साध्विति भूतानि व्याहरन्ति नभोगता ॥ 6.79.35 ॥
तं दृष्ट्वा निहतं शूलं मकाराक्षो निशाचरः।
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 6.79.36 ॥
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः।
पावकास्त्रं ततो रामः सन्दधे तु शरासने ॥ 6.79.37 ॥
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे।
सञ्छिन्नहृदयं तत्र पपात च ममार च ॥ 6.79.38 ॥
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्।
लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ॥ 6.79.39 ॥
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम्।
ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ॥ 6.79.40 ॥