निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्।
रावणः परमामर्षी प्रजज्वालानलो यथा ॥ 6.78.1 ॥
नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः।
खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ 6.78.2 ॥
गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभिसमन्वितः।
राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ॥ 6.78.3 ॥
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः।
बाढमित्यब्रवीद्धृष्टो मकाराक्षो निशाचरः ॥ 6.78.4 ॥
सोऽबिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्।
निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ 6.78.5 ॥
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम्।
रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ॥ 6.78.6 ॥
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः।
स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ 6.78.7 ॥
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः।
सूतं सञ्चोदयामास शीघ्रं मे रथमावह ॥ 6.78.8 ॥
अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम्।
यूयं सर्वे प्रयुद्ध्यध्वं पुरस्तान्मम राक्षसाः ॥ 6.78.9 ॥
अहं राक्षसराजेन रावणेन महात्मना।
आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ 6.78.10 ॥
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः।
शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ 6.78.11 ॥
अद्य शूलनिपातैश्च वानराणां महाचमूम्।
प्रदहिष्यामि सम्प्राप्तः शुष्केन्धनमिवानलः ॥ 6.78.12 ॥
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः।
सर्वे नानायुधोपेता बलवन्तः समागताः ॥ 6.78.13 ॥
ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः।
मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ 6.78.14 ॥
परिवार्य महाकाया महाकायं खरात्मजम्।
अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥ 6.78.15 ॥
शङ्खभेरीसहस्राणामाहतानां समन्ततः।
क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ॥ 6.78.16 ॥
प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा।
पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥ 6.78.17 ॥
तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः।
चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ 6.78.18 ॥
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः।
निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ 6.78.19 ॥
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः।
अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ 6.78.20 ॥
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः।
अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ॥ 6.78.21 ॥