निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्।
प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ 6.77.1 ॥
ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम्।
आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ 6.77.2 ॥
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्।
यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ 6.77.3 ॥
तमाविध्य महातेजाः शक्रध्वजसमं तदा।
विननाद विवृत्तास्यो निकुम्भो भीम विक्रमः ॥ 6.77.4 ॥
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि।
कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥ 6.77.5 ॥
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च।
यथेन्द्रधनुषा मेघः सविद्युत् स्तनयित्नुमान् ॥ 6.77.6 ॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः।
प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ 6.77.7 ॥
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः।
सह चैवामरावत्या सर्वैश्च भवनैः सह ॥ 6.77.8 ॥
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम्।
निकुम्भपरिघाघूर्णं भ्रमतीव नभस्स्थलम् ॥ 6.77.9 ॥
दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः।
कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ 6.77.10 ॥
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्।
हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ 6.77.11 ॥
परिघोपमबाहुस्तु परिघं भास्करप्रभम्।
बली बलवतस्तस्य पातयामास वक्षसि ॥ 6.77.12 ॥
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः।
विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ 6.77.13 ॥
स तु तेन प्रहारेण विचचाल महाकपिः।
परिघेण समाधूतो यथाभूमिचलेऽचलः ॥ 6.77.14 ॥
स तदाऽभिहतस्तेन हनुमान् प्लवगोत्तमः।
मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ 6.77.15 ॥
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्।
अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ॥ 6.77.16 ॥
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्।
मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ॥ 6.77.17 ॥
स तु तेन प्रहारेण निकुम्भो विचचाल ह।
स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥ 6.77.18 ॥
विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः।
निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ 6.77.19 ॥
स तदा ह्रियमाणोऽपि कुम्भकर्णात्मजेन ह।
आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥ 6.77.20 ॥
आत्मानं मोचयित्वाऽथ क्षितावभ्यवपद्यत।
हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥ 6.77.21 ॥
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह।
उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥ 6.77.22 ॥
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्।
उत्पाटयामास शिरो भैरवं नदतो महत् ॥ 6.77.23 ॥
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ॥ 6.77.24 ॥
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च।
चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ॥ 6.77.25 ॥