प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये।
अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ 6.76.1 ॥
आहूय सोऽङ्गदं कोपात् ताडयामास वेगितः।
गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ 6.76.2 ॥
स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः।
अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ 6.76.3 ॥
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे।
रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥ 6.76.4 ॥
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः।
शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥ 6.76.5 ॥
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः।
कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥ 6.76.6 ॥
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्।
धनुरग्र्यं रथं बाणान् ममर्द तरसा बली ॥ 6.76.7 ॥
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे।
उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ॥ 6.76.8 ॥
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली।
करेण तस्य तं खड्गं समाच्छिद्य ननाद च ॥ 6.76.9 ॥
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः।
यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥ 6.76.10 ॥
तं प्रगृह्य महाखड्गं विनद्य च पुनःपुनः।
वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन् ॥ 6.76.11 ॥
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः।
शोणिताक्षः समाविध्य तमेवानुपपात ह ॥ 6.76.12 ॥
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली।
रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ 6.76.13 ॥
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः।
विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ॥ 6.76.14 ॥
अङ्गदं परिरक्षान्तौ मैन्दो द्विविद एव च।
तस्य तस्थातुरभ्याशे परस्परदिदृक्षया ॥ 6.76.15 ॥
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः।
राक्षसा वानरान् रोषादसिचर्मगदाधराः ॥ 6.76.16 ॥
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः।
संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ॥ 6.76.17 ॥
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे।
खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः ॥ 6.76.18 ॥
रथानश्वान् द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे।
शरौधैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः ॥ 6.76.19 ॥
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्।
बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥ 6.76.20 ॥
उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम्।
प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥ 6.76.21 ॥
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः।
आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥ 6.76.22 ॥
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना।
वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ 6.76.23 ॥
तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसन्निभम्।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ 6.76.24 ॥
ललाटे स महावीर्यमङ्गदं वानरर्षभम्।
आजघान महातेजाः स मुहूर्तं चचाल ह ॥ 6.76.25 ॥
स सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्।
प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ ॥ 6.76.26 ॥
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे।
अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ॥ 6.76.27 ॥
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्।
आजघानोरसि क्रुद्धो जाग्राह च बलाद्बली ॥ 6.76.28 ॥
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः।
आजघान गदाग्रेण वक्षसि द्विविदं ततः ॥ 6.76.29 ॥
स गदाभिहतस्तेन चचाल च महाबलः।
उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥ 6.76.30 ॥
एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः।
यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥ 6.76.31 ॥
तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ।
चक्रुतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ 6.76.32 ॥
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे।
निष्पिपेष च वगेन क्षितावाविध्य वीर्यवान् ॥ 6.76.33 ॥
यूपाक्षमपि सङ्क्रुद्धो मैन्दो वानरयूथपः।
पीडयामास बाहुभ्यां स पपात हतः क्षितौ ॥ 6.76.34 ॥
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा।
जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ॥ 6.76.35 ॥
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥ 6.76.36 ॥
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः।
कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ 6.76.37 ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः।
मुमोचाशीविषप्रख्यान् शरान् देहविदारणान् ॥ 6.76.38 ॥
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्।
विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा ॥ 6.76.39 ॥
आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा।
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ 6.76.40 ॥
सहसाऽभिहतस्तेन विप्रमुक्तपदः स्फुरन्।
निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥ 6.76.41 ॥
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे।
अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥ 6.76.42 ॥
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः।
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ 6.76.43 ॥
सन्धाय चान्यं सुमुखं शरमासीविषोपमम्।
आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ 6.76.44 ॥
स तु तेन प्रहारेण मैन्दो वानरयूथपः।
मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥ 6.76.45 ॥
अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ।
अभिदुद्राव वेगेन कुम्भमद्युतकार्मुकम् ॥ 6.76.46 ॥
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः।
त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ॥ 6.76.47 ॥
सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्।
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥ 6.76.48 ॥
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते।
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ॥ 6.76.49 ॥
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः।
कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ॥ 6.76.50 ॥
भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्।
तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥ 6.76.51 ॥
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते।
सालमासन्नमेकेन परिजग्राह पाणिना ॥ 6.76.52 ॥
सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च।
किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः ॥ 6.76.53 ॥
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम्।
समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥ 6.76.54 ॥
स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ॥ 6.76.55 ॥
अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥ 6.76.56 ॥
अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे।
दुरासदं हरिश्रेष्ठं रामायन्ये न्यवेदयन् ॥ 6.76.57 ॥
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे।
व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखांस्ततः ॥ 6.76.58 ॥
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्।
अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ 6.76.59 ॥
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः।
रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥ 6.76.60 ॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ 6.76.61 ॥
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्।
आववार शरौघेण नगेनेव जलाशयम् ॥ 6.76.62 ॥
तस्य बाणपथं प्राप्य न शोकुरतिवर्तितुम्।
वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ 6.76.63 ॥
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिबिरर्दितान्।
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ 6.76.64 ॥
अबिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे।
शैलसानुचरं नागं वेगवानिव केसरी ॥ 6.76.65 ॥
उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून्।
अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः ॥ 6.76.66 ॥
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्।
कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ॥ 6.76.67 ॥
अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः।
आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ॥ 6.76.68 ॥
द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्।
वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ॥ 6.76.69 ॥
निर्भिद्यमानः सहसा सहमानश्च तान् शरान्।
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम् ॥ 6.76.70 ॥
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्।
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ॥ 6.76.71 ॥
निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम्।
सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ॥ 6.76.72 ॥
प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम।
एकस्त्वमनुजातोऽसि पितरं बलवृत्ततः ॥ 6.76.73 ॥
त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम्।
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ॥ 6.76.74 ॥
विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ॥ 6.76.75 ॥
वरदानात् पितृव्यस्ते सहते देवदानवान्।
कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ 6.76.76 ॥
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च।
त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ 6.76.77 ॥
महाविमर्दं समरे मया सह तवाद्भुतम्।
अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ 6.76.78 ॥
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्।
पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ॥ 6.76.79 ॥
उपालम्भभयाच्चापि नासि वीर मया हतः।
कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥ 6.76.80 ॥
अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत।
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ॥ 6.76.81 ॥
अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम्।
सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥ 6.76.82 ॥
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही।
व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥ 6.76.83 ॥
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि।
पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥ 6.76.84 ॥
ततः कुम्भनिपातेन जलराशिः समुत्थितः।
विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः ॥ 6.76.85 ॥
ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च।
आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ॥ 6.76.86 ॥
तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम्।
स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ 6.76.87 ॥
तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः।
वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ ॥ 6.76.88 ॥
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ 6.76.89 ॥
अर्चिस्सहस्रविकचं रविमण्डलसप्रभम्।
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ 6.76.90 ॥
स तु तेन प्रहारेण विह्वलो भृशताडितः।
निपपात तदा कुम्भो गतार्चिरिव पावकः ॥ 6.76.91 ॥
मुष्टिनाऽभिहतस्तेन निपपाताशु राक्षसः।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ 6.76.92 ॥
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना।
बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ॥ 6.76.93 ॥
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे।
मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥ 6.76.94 ॥