ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः।
अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ 6.75.1 ॥
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥ 6.75.2 ॥
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः।
[हरयो हरिसङ्काशाः प्रदग्धुं रावणालयम्।] ॥ 6.75.3 ॥
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे।
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ 6.75.4 ॥
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ 6.75.5 ॥
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्।
तेषां गृहसस्राणि ददाह हुतभुक् तदा ॥ 6.75.6 ॥
प्रासादाः पर्वताकाराः पतन्ति धरणीतले।
अगरुर्दह्यते तत्र वर च हरिचन्दनम् ॥ 6.75.7 ॥
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम्।
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ॥ 6.75.8 ॥
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम्।
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ ॥ 6.75.9 ॥
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः।
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ॥ 6.75.10 ॥
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः।
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ॥ 6.75.11 ॥
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः।
विविधानस्त्रसंयोगानग्निर्दहति तत्र वै ॥ 6.75.12 ॥
नानाविधान् गृहच्छन्दान् ददाह हुतभूक् तदा।
आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् ॥ 6.75.13 ॥
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्।
शीधुपानचलाक्षाणां मदविह्वलगामिनाम् ॥ 6.75.14 ॥
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम्।
गदाशूलासिहस्तानां खादतां पिबतामपि ॥ 6.75.15 ॥
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह।
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ॥ 6.75.16 ॥
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्।
अदहत् पावकस्तत्र जज्वाल च पुनःपुनः ॥ 6.75.17 ॥
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च।
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ॥ 6.75.18 ॥
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः।
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ॥ 6.75.19 ॥
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः।
नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः ॥ 6.75.20 ॥
ज्वलनेन परीतानि तोरणानि चकाशिरे।
विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे ॥ 6.75.21 ॥
ज्वलनेन परीतानि निपेतुर्भवनान्यथ।
वज्रिवज्रहतानीव शिखराणि महागिरेः ॥ 6.75.22 ॥
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः।
त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ॥ 6.75.23 ॥
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे।
हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥ 6.75.24 ॥
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि।
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥ 6.75.25 ॥
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ 6.75.26 ॥
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतोऽपसर्पति।
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥ 6.75.27 ॥
लङ्कायां दह्यमानायां शुशुभे स महार्णवः।
छायासंसक्तसलिलो लोहितोद इवार्णवः ॥ 6.75.28 ॥
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी।
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥ 6.75.29 ॥
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः।
स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥ 6.75.30 ॥
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः।
सहसाऽभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥ 6.75.31 ॥
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः।
दिशो दश समुद्रं च पृथिवीं चान्वनादयत् ॥ 6.75.32 ॥
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ।
असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ॥ 6.75.33 ॥
ततो विष्फारयानस्य रामस्य धनुरुत्तमम्।
बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ 6.75.34 ॥
अशोभत तदा रामो धनुर्विष्फारयन् महत्।
भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ॥ 6.75.35 ॥
उद्घुष्टं वानराणां च राक्षसानां च निस्वनम्।
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥ 6.75.36 ॥
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः।
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ 6.75.37 ॥
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्।
कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ 6.75.38 ॥
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च।
सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ 6.75.39 ॥
तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम्।
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ 6.75.40 ॥
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना।
आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥ 6.75.41 ॥
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः।
स हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः ॥ 6.75.42 ॥
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु।
स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥ 6.75.43 ॥
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश।
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥ 6.75.44 ॥
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ।
प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ॥ 6.75.45 ॥
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा।
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥ 6.75.46 ॥
शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान्।
नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च ॥ 6.75.47 ॥
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः।
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनःपुनः ॥ 6.75.48 ॥
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः।
चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ 6.75.49 ॥
तत्र ताराधिपस्याभा ताराणां च तथैव च।
तयोराभरणस्था च बलयोर्द्यामभासयन् ॥ 6.75.50 ॥
चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा।
हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥ 6.75.51 ॥
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः।
भाभिः संसक्तपातालश्चलोर्मिः शुशुबेऽधिकम् ॥ 6.75.52 ॥
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम्।
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥ 6.75.53 ॥
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्।
तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥ 6.75.54 ॥
ददृशो ज्वलितप्रासं किङ्किणीशतनादितम्।
हेमजालाचितभुजं व्यामिश्रितपरश्वधम् ॥ 6.75.55 ॥
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्।
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ॥ 6.75.56 ॥
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् ॥ 6.75.57 ॥
तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम्।
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च ॥ 6.75.58 ॥
जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत्।
अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् ॥ 6.75.59 ॥
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि।
राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥ 6.75.60 ॥
तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः।
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ॥ 6.75.61 ॥
तथैवापततां तेषां कपीनामसिभिः शितैः।
शिरांसि सहसा जह्नू राक्षसा भीमदर्शनाः ॥ 6.75.62 ॥
दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ 6.75.63 ॥
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः।
प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् ॥ 6.75.64 ॥
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।
हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः ॥ 6.75.65 ॥
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्।
गर्हमाणं जगर्हेऽन्यो दशन्तमपरोऽदशत् ॥ 6.75.66 ॥
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥ 6.75.67 ॥
समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम्।
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ॥ 6.75.68 ॥
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे।
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ॥ 6.75.69 ॥
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम्।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥ 6.75.70 ॥