०७४ हनुमता हिमालयप्रयाणम्

तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम्।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ॥ 6.74.1 ॥
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः।
उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ 6.74.2 ॥
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ।
स्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ॥ 6.74.3 ॥
तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम्।
तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ 6.74.4 ॥
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः।
विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ 6.74.5 ॥
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्।
यो यो धारयते प्राणांस्तन्तमाश्वासयावहै ॥ 6.74.6 ॥
तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ।
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ 6.74.7 ॥
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ 6.74.8 ॥
पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम्।
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ 6.74.9 ॥
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।
गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ 6.74.10 ॥
मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा।
एतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ॥ 6.74.11 ॥
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।
अह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ॥ 6.74.12 ॥
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।
मार्गते जाम्बवन्तं स हनुमान् सविभीषणः ॥ 6.74.13 ॥
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ 6.74.14 ॥
दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत्।
कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ 6.74.15 ॥
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः।
कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥ 6.74.16 ॥
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये।
पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ 6.74.17 ॥
अञ्जना सुप्रजा येन मातरिश्वा च नैर्ॠत।
हनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥ 6.74.18 ॥
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।
आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ 6.74.19 ॥
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।
आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ 6.74.20 ॥
विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्।
शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥ 6.74.21 ॥
तस्मिन् जीवति वीरे तु हतमप्यहतं बलम्।
हनुमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ 6.74.22 ॥
धरते मारुतिस्तात मारुतप्रतिमो यदि।
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ 6.74.23 ॥
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्।
गृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ॥ 6.74.24 ॥
श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः।
पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ 6.74.25 ॥
ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ॥ 6.74.26 ॥
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि।
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ॥ 6.74.27 ॥
ऋक्षवानरवीराणामनीकानि प्रहर्षय।
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ 6.74.28 ॥
गत्वा परममध्वानमुपर्युपरि सागरम्।
हिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ॥ 6.74.29 ॥
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्।
कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ 6.74.30 ॥
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।
सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ 6.74.31 ॥
तस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः।
द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ 6.74.32 ॥
मृतसञ्जीवनीं चैव विशल्यकरणीमपि।
सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ 6.74.33 ॥
ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि।
आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ 6.74.34 ॥
श्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः।
आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ 6.74.35 ॥
स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।
हनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥ 6.74.36 ॥
हरिपादविनिर्भग्नो निषसाद स पर्वतः।
न शशाक तदाऽऽत्मानं सोढुं भृशनिपीडितः ॥ 6.74.37 ॥
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।
शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ 6.74.38 ॥
तस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले।
न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ 6.74.39 ॥
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।
लङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ॥ 6.74.40 ॥
पृथिवीधरसङ्काशो विपीड्य धरणीधरम्।
पृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ॥ 6.74.41 ॥
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम्।
मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ 6.74.42 ॥
नानाद्रुमलताकीर्णं विकासिकमलोत्पलम्।
सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥ 6.74.43 ॥
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्।
नानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ 6.74.44 ॥
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्।
हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥ 6.74.45 ॥
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।
विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ 6.74.46 ॥
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्।
लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ 6.74.47 ॥
नमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः।
राघवार्थे परं कर्म समीहतपरन्तपः ॥ 6.74.48 ॥
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य।
विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ 6.74.49 ॥
स वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च।
बाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ 6.74.50 ॥
स तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः।
जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ 6.74.51 ॥
स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्।
समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ 6.74.52 ॥
स पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि।
स्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥ 6.74.53 ॥
आदित्यपथमाश्रित्य जगाम स गतक्लमः।
हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ 6.74.54 ॥
जवेन महता युक्तो मारुतिर्मारुतो यथा।
जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ 6.74.55 ॥
स्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा।
ददर्श सहसा चापि हिमवन्तं महाकपिः ॥ 6.74.56 ॥
श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः।
शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ 6.74.57 ॥
स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्।
ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ 6.74.58 ॥
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्।
हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ 6.74.59 ॥
वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च।
ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ 6.74.60 ॥
कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम्।
सन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ 6.74.61 ॥
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः।
आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ॥ 6.74.62 ॥
स योजनसहस्राणि समतीत्य महाकपिः।
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ 6.74.63 ॥
महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे।
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ 6.74.64 ॥
स ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद।
अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ 6.74.65 ॥
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः।
पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ 6.74.66 ॥
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्।
विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥ 6.74.67 ॥
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्।
संस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ॥ 6.74.68 ॥
स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य।
बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ 6.74.69 ॥
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु।
सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ 6.74.70 ॥
तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद।
तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ 6.74.71 ॥
ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये।
हर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ 6.74.72 ॥
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्।
बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ 6.74.73 ॥
सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः।
गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ 6.74.74 ॥
यदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ 6.74.75 ॥
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः।
हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ 6.74.76 ॥
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः।
निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ 6.74.77 ॥