०७३ राम-लक्ष्मणमूर्छावर्णनम्

ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान्।
रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥ 6.73.1 ॥
ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः।
पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ 6.73.2 ॥
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्।
रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥ 6.73.3 ॥
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र।
नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरेऽभिपातुम् ॥ 6.73.4 ॥
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम्।
गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ॥ 6.73.5 ॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्।
अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥ 6.73.6 ॥
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः।
द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥ 6.73.7 ॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः।
समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥ 6.73.8 ॥
तमास्थाय महातेजा रथं हरिरथोपमम्।
जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥ 6.73.9 ॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः।
संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ 6.73.10 ॥
गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः।
प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ॥ 6.73.11 ॥
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः।
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ 6.73.12 ॥
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः।
रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ॥ 6.73.13 ॥
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः।
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ 6.73.14 ॥
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा।
रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ॥ 6.73.15 ॥
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः।
स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥ 6.73.16 ॥
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः।
जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ॥ 6.73.17 ॥
स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः।
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ 6.73.18 ॥
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ 6.73.19 ॥
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ 6.73.20 ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः।
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ 6.73.21 ॥
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः।
हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ॥ 6.73.22 ॥
सोऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा।
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥ 6.73.23 ॥
तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके।
सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ॥ 6.73.24 ॥
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः।
सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेत्मानमचिन्त्यरूपः ॥ 6.73.25 ॥
ततो हयरथाकीर्णं पताकाध्वजशोभितम्।
निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥ 6.73.26 ॥
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः।
तोमरैरङ्कुशैश्चापि वानरान् जघ्नुराहवे ॥ 6.73.27 ॥
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान्।
हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया ॥ 6.73.28 ॥
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः।
अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः ॥ 6.73.29 ॥
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि।
रक्षोभिः संवृतः सङ्ख्ये वानरान् विचकर्त ह ॥ 6.73.30 ॥
ते वध्यमानाः समरे वानराः पादपायुधाः।
अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ॥ 6.73.31 ॥
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः।
वानराणां शरीराणि व्यधमद्रावणात्मजः ॥ 6.73.32 ॥
शरेणैकेन च हरीन् नव पञ्च च सप्त च।
चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ॥ 6.73.33 ॥
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः।
वानरान् समरे वीरः प्रममाथ सुदुर्जयः ॥ 6.73.34 ॥
ते भिन्नगात्राः समरे वानराः शपपीडिताः।
पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ॥ 6.73.35 ॥
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः।
अभ्यधावन्त सङ्क्रुद्धाः संयुगे वानरर्षभाः ॥ 6.73.36 ॥
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः।
व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ 6.73.37 ॥
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः।
नर्दन्तस्तेऽभिवृत्तास्तु समरे सशिलायुधाः ॥ 6.73.38 ॥
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः।
अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ॥ 6.73.39 ॥
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।
व्यपोहत महातेजा रावणिः समितिञ्जयः ॥ 6.73.40 ॥
ततः पावकसङ्काशैः शरैराशीविषोपमैः।
वानराणामनीकानि बिभेद समरे प्रभुः ॥ 6.73.41 ॥
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्।
विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥ 6.73.42 ॥
सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः।
पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥ 6.73.43 ॥
सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा।
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ॥ 6.73.44 ॥
अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः।
अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्च्छितः ॥ 6.73.45 ॥
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः।
वानराणामनीकानि निर्ममन्थ महारणे ॥ 6.73.46 ॥
आकुलां वानरीं सेनां शरजालेन मोहिताम्।
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ॥ 6.73.47 ॥
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्।
ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ॥ 6.73.48 ॥
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु।
अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाऽम्बु ॥ 6.73.49 ॥
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः।
रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥ 6.73.50 ॥
ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु।
मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ॥ 6.73.51 ॥
ततः स रक्षोधिपतिर्महात्मा सर्वे दिशो बाणगणैः शिताग्रैः।
प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥ 6.73.52 ॥
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि।
सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीर्व्रं प्लवगेन्द्रसैन्ये ॥ 6.73.53 ॥
ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः।
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥ 6.73.54 ॥
तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्।
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ 6.73.55 ॥
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः।
शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ 6.73.56 ॥
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम्।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ 6.73.57 ॥
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ।
केसरिं हरिलोमानं विद्युदृंष्ट्रं च वानरम् ॥ 6.73.58 ॥
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्।
पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥ 6.73.59 ॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः।
विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ॥ 6.73.60 ॥
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः।
ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥ 6.73.61 ॥
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य।
समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ॥ 6.73.62 ॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः।
निपातयित्वा हरिसैन्यमुग्रमस्मान् शरैरर्दयति प्रसक्तः ॥ 6.73.63 ॥
स्वयम्भुवा दत्तवरो महात्मा खमास्थितोऽन्तर्हितभीमकायः।
कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ 6.73.64 ॥
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च योऽस्य।
बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ॥ 6.73.65 ॥
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः।
एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ॥ 6.73.66 ॥
आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्तयुद्धौ गतरोषहर्षो।
ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ॥ 6.73.67 ॥
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तथा विशस्तौ।
स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ॥ 6.73.68 ॥
विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम्।
[संस्तूयमानः स तु यातुधानैः पित्रे च सर्वं हृषितोभ्युवाच ॥ 6.73.69 ॥