अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा।
उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥ 6.72.1 ॥
धूभ्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः।
अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥ 6.72.2 ॥
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः।
जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ 6.72.3 ॥
राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः।
अन्ये च बहवः शूरा महात्मानो निपातिताः ॥ 6.72.4 ॥
प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम।
यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ॥ 6.72.5 ॥
यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः।
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ॥ 6.72.6 ॥
तन्न जाने प्रभावैर्वा मायया मोहनेन वा।
शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ॥ 6.72.7 ॥
ये योधा निर्गताः शूरा राक्षसा मम शासनात्।
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ॥ 6.72.8 ॥
तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम्।
शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ॥ 6.72.9 ॥
अहो नु बलवान् रामो महदस्त्रबलं च वै।
यस्य विक्रममासाद्य राक्षसा निधनं गताः ॥ 6.72.10 ॥
तं मन्ये राघवं वीरं नारायणमनामयम्।
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ॥ 6.72.11 ॥
अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ॥ 6.72.12 ॥
अशोकवनिकायां च यत्र सीताऽभिरक्ष्यते।
निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ॥ 6.72.13 ॥
यत्र यत्र भवेद् गुल्मस्तत्रतत्र पुनःपुनः।
सर्वतश्चापि तिष्ठध्वं स्वैःस्वैः परिवृता बलैः ॥ 6.72.14 ॥
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः।
प्रदोषे वाऽर्धरात्रे वा प्रत्यूषे वापि सर्वतः ॥ 6.72.15 ॥
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन।
द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ॥ 6.72.16 ॥
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।
वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ॥ 6.72.17 ॥
स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः।
मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ॥ 6.72.18 ॥
ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः।
तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ॥ 6.72.19 ॥