०७१ लक्ष्मणेन-अतिकायवधः

स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्।
भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ 6.71.1 ॥
पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ।
युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥ 6.71.2 ॥
चुकोप च महातेजा ब्रह्मदत्तवरो युधि।
अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ॥ 6.71.3 ॥
स भास्करसहस्रस्य सङ्घातमिव भास्वरम्।
रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥ 6.71.4 ॥
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः।
नाम विश्रावयामास ननाद च महास्वनम् ॥ 6.71.5 ॥
तेन सिंहप्रणादेन नामविश्रावणेन च।
ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ 6.71.6 ॥
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः।
भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥ 6.71.7 ॥
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे।
भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥ 6.71.8 ॥
तेऽतिकायं समासाद्य वानरा मूढचेतसः।
शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ 6.71.9 ॥
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्।
ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ॥ 6.71.10 ॥
स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये।
वानरान् सान्त्वयित्वाऽथ विभीषणमुवाच ह ॥ 6.71.11 ॥
कोऽसौ पर्वतसङ्काशो धनुष्मान् हरिलोचनः।
युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ 6.71.12 ॥
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः।
अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ 6.71.13 ॥
कालजिह्वाप्रकाशाभिर्य एषोऽतिविराजते।
आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ 6.71.14 ॥
धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः।
शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥ 6.71.15 ॥
क एष रक्षश्शार्दूलो रणभूमिं विराजयन्।
अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥ 6.71.16 ॥
ध्वजशृङ्गप्रतिष्ठेन राहुणाऽभिविराजते।
सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ॥ 6.71.17 ॥
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम्।
शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ 6.71.18 ॥
सध्वजः सपताकश्च सानुकर्षो महारथः।
चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ॥ 6.71.19 ॥
विंशतिर्दश चाष्टौ च तूण्योऽस्य रथमास्थिताः।
कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ 6.71.20 ॥
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ।
चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ॥ 6.71.21 ॥
रक्तकण्ठगुणो धीरो महापर्वतसन्निभः।
कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ 6.71.22 ॥
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते।
शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ॥ 6.71.23 ॥
कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्।
पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ॥ 6.71.24 ॥
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्।
यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ 6.71.25 ॥
स पृष्टो राजपुत्रेण रामेणामिततेजसा।
आचचक्षे महातेजा राघवाय विभीषणः ॥ 6.71.26 ॥
दशग्रीवो महातेजा राजा वैश्रवणानुजः।
भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ 6.71.27 ॥
तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे।
वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ 6.71.28 ॥
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे।
भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥ 6.71.29 ॥
यस्य बाहू समाश्रित्य लङ्का वसति निर्भया।
तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ 6.71.30 ॥
एतेनाराधितो ब्रह्मा तपसा भावितात्मना।
अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ 6.71.31 ॥
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा।
एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्वरः ॥ 6.71.32 ॥
एतेन शतशो देवा दानवाश्च पराजिताः।
रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥ 6.71.33 ॥
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः।
पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥ 6.71.34 ॥
एषोऽतिकायो बलवान् राक्षसानामथर्षभः।
रावणस्य सुतो धीमान् देवदानवदर्पहा ॥ 6.71.35 ॥
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव।
पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ 6.71.36 ॥
ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्।
विस्फारयामास धनुर्ननाद च पुनःपुनः ॥ 6.71.37 ॥
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्।
अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥ 6.71.38 ॥
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च।
पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ॥ 6.71.39 ॥
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः।
अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ 6.71.40 ॥
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली।
विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥ 6.71.41 ॥
तेऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः।
न शेकुरतिकायस्य प्रतिकर्तुं महारणे ॥ 6.71.42 ॥
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः।
मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ 6.71.43 ॥
स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कञ्चित्।
उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ 6.71.44 ॥
रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कञ्चन योधयामि।
यश्चास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥ 6.71.45 ॥
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता।
अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ 6.71.46 ॥
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्।
पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ 6.71.47 ॥
पूरयन् स महीं शैलानाकाशं सागरं दिशः।
ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥ 6.71.48 ॥
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा।
विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ 6.71.49 ॥
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्।
आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ 6.71.50 ॥
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः।
गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ 6.71.51 ॥
नहि मद्बाहुसृष्टानामस्त्राणां हिमवानपि।
सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ 6.71.52 ॥
सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि।
न्यस्यचापं निवर्तस्व मा प्राणान् जहि मद्गतः ॥ 6.71.53 ॥
अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि।
तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ॥ 6.71.54 ॥
पश्य मे निशितान् बाणानरिदर्पनिषूदनान्।
ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥ 6.71.55 ॥
मृगराज इव क्रुद्धो नागराजस्य शोणितम्।
इत्येवमुक्त्वा सङ्क्रुद्धः शरं धनुषि सन्दधे ॥ 6.71.56 ॥
श्रुत्वाऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः।
स सञ्चुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ॥ 6.71.57 ॥
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति।
मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ॥ 6.71.58 ॥
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि।
पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ 6.71.59 ॥
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः।
शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ 6.71.60 ॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः।
मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ॥ 6.71.61 ॥
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः।
पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥ 6.71.62 ॥
बालोऽयमिति विज्ञाय न माऽवज्ञातुमर्हसि ॥ 6.71.63 ॥
बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे।
बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभिःक्रमैः ॥ 6.71.64 ॥
लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत्।
अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ 6.71.65 ॥
ततो विद्याधरा भूता देवा दैत्या महर्षयः।
गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमन् ॥ 6.71.66 ॥
ततोऽतिकायः कुपितश्चापमारोप्य सायकम्।
लक्ष्मणाय प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् ॥ 6.71.67 ॥
तमापतन्तं निशितं शरमाशीविषोपमम्।
अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ 6.71.68 ॥
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्।
अतिकायो भृशं क्रुद्धः पञ्च बाणान् समाददे ॥ 6.71.69 ॥
तानप्राप्तान् शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः।
[पञ्चभिःपञ्च चिच्छेद पावकार्कसमप्रभैः] ॥ 6.71.70 ॥
स ताञ्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा।
आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ 6.71.71 ॥
तमादाय धनुश्श्रेष्ठे योजयामास लक्ष्मणः।
विचकर्ष च वेगेन विससर्ज च वीर्यवान् ॥ 6.71.72 ॥
पूर्णायतविसृष्टेन शरेण नतपर्वणा।
ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ 6.71.73 ॥
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः।
ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ 6.71.74 ॥
राक्षसः प्रचक्रम्पे च लक्ष्मणेषुप्रपीडितः।
रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ 6.71.75 ॥
चिन्तयामास चाश्वास्य विमृश्य च महाबलः।
साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥ 6.71.76 ॥
विधायैवं विनम्यास्यं नियम्य च भुजावुभौ।
स रथोपस्थमास्थाय रथे च प्रचचार ह ॥ 6.71.77 ॥
एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः।
आददे सन्दधे चापि विचकर्षोत्ससर्ज च ॥ 6.71.78 ॥
ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः।
हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ 6.71.79 ॥
ततस्तान् राक्षसोत्सृष्टान् शरौघान् राघवानुजः।
असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ 6.71.80 ॥
तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः।
चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ 6.71.81 ॥
स सन्धाय महातेजास्तं बाणं सहसोत्सृजत्।
ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ 6.71.82 ॥
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि।
सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ 6.71.83 ॥
स चकार तदाऽऽत्मानं विशल्यं सहसा विभुः।
जग्राह च शरं तीक्ष्णमस्त्रेणापि च सन्दधे ॥ 6.71.84 ॥
आग्नेयेन तदाऽस्त्रेण योजयामास सायकम्।
स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ 6.71.85 ॥
अतिकायोऽपि तेजस्वी सौरमस्त्रं समादधे।
तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ 6.71.86 ॥
तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम्।
अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ 6.71.87 ॥
आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः।
उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ॥ 6.71.88 ॥
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः।
तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भूजङ्गमौ ॥ 6.71.89 ॥
तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले।
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ॥ 6.71.90 ॥
ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत्।
तत् प्रचिच्छेद सौमित्रिरस्त्रेणैन्द्रेण वीर्यवान् ॥ 6.71.91 ॥
ऐषीकं निहतं दृष्ट्वा रुषितो रावणात्मजः।
याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ॥ 6.71.92 ॥
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः।
वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥ 6.71.93 ॥
अथैनं शरधाराभिर्धाराभिरिव तोयदः।
अभ्यवर्षत् सुसङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ॥ 6.71.94 ॥
तेऽतिकायं समासाद्य कवचे वज्रभूषिते।
भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ 6.71.95 ॥
तान् मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा।
अभ्यवर्षन्महेषूणां सहस्रेण महायशाः ॥ 6.71.96 ॥
अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे।
न शशाक रुजं कर्तुं युधि तस्य शरोत्तमः ॥ 6.71.97 ॥
अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह।
ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः ॥ 6.71.98 ॥
ब्राह्मेणास्त्रेण भिन्द्ध्यैनमेष वध्यो हि नान्यथा।
अवध्य एष ह्यन्येषामस्त्राणां कवची बली ॥ 6.71.99 ॥
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः।
समाददे बाणममोघवेग तद् ब्राह्ममस्त्रं सहसा नियोज्य ॥ 6.71.100 ॥
तस्मिन् महास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे।
विशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास चचाल चोर्वी ॥ 6.71.101 ॥
तं ब्रह्मणोऽस्त्रेण नियोज्य चापे शरं सुपुङ्खं यमदूतकल्पम्।
सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ॥ 6.71.102 ॥
तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम्।
सुवर्णवज्रात्तमचित्रपुङ्खं तदाऽतिकायः समरे ददर्श ॥ 6.71.103 ॥
तं प्रेक्षमाणः सहसाऽतिकायो जघान बाणैर्निशितैरनेकैः।
स सायकस्तस्य सुपर्णवेगस्तदाऽतिकायस्य जगाम पार्श्वम् ॥ 6.71.104 ॥
तमागतं प्रेक्ष्य तदाऽतिकायो बाणं प्रदीप्तान्तककालकल्पम्।
जघान शक्त्यृष्टिगदाकुठारैः शूलैर्हलैश्चात्यविपन्नचेताः ॥ 6.71.105 ॥
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः।
प्रगृह्य तस्यैव किरीटजुष्टं ततोऽतिकायस्य शिरो जहार ॥ 6.71.106 ॥
तच्छिरः सशिरस्त्राणां लक्ष्मणेषुप्रपीडितम्।
पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ 6.71.107 ॥
तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम्।
बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ 6.71.108 ॥
ते विषण्णमुखादीनाः प्रहारजनितश्रमाः।
विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ 6.71.109 ॥
ततस्ते त्वरितं याता निरपेक्षा निशाचराः।
पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ 6.71.110 ॥
[अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः।
त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम] ॥ 6.71.111 ॥