एवं विलपमानस्य रावणस्य दुरात्मनः।
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ 6.69.1 ॥
एवमेव महावीर्यो हतो नस्तातमध्यमः।
न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ॥ 6.69.2 ॥
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो।
स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥ 6.69.3 ॥
ब्रह्मदत्ताऽस्ति ते शक्तिः कवचः सायको धनुः।
सहस्रखरसंयुक्तो रथो मेघस्वनो महान् ॥ 6.69.4 ॥
त्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः।
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ 6.69.5 ॥
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम्।
उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥ 6.69.6 ॥
शम्बरो देवराजेन नरको विष्णुना यथा।
तथाऽद्य शयिता रामो मया युधि निपातितः ॥ 6.69.7 ॥
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः।
पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ 6.69.8 ॥
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ।
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ 6.69.9 ॥
ततोऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः।
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ 6.69.10 ॥
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः।
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥ 6.69.11 ॥
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः।
देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ॥ 6.69.12 ॥
सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः।
सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ 6.69.13 ॥
स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः।
रराज राजा मघवान् यथाऽमरैर्वृतो महादानवदर्पनाशनैः ॥ 6.69.14 ॥
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः।
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ 6.69.15 ॥
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः।
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ 6.69.16 ॥
तेऽभिवाद्य महात्मानं रावणं रिपुरावणम्।
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ 6.69.17 ॥
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः।
निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ 6.69.18 ॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ।
महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ॥ 6.69.19 ॥
ततः सुदर्शनं नाम नीलजीमूतसन्निभम्।
ऐरावतकुले जातमारुरोह महोदरः ॥ 6.69.20 ॥
सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम्।
रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ 6.69.21 ॥
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्।
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ 6.69.22 ॥
त्रिशिरा रथमास्थाय विरराज धनुर्धरः।
सविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ॥ 6.69.23 ॥
त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे।
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ 6.69.24 ॥
अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा।
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ 6.69.25 ॥
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्।
तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥ 6.69.26 ॥
स काञ्चनविचित्रेण मुकुटेन विराजता।
भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥ 6.69.27 ॥
स रराज रथे तस्मिन् राजसूनुर्महाबलः।
वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥ 6.69.28 ॥
हयमुच्चैश्श्रवप्रख्यं श्वेतं कनकभूषणम्।
मनोजवं महाकायमारुरोह नरान्तकः ॥ 6.69.29 ॥
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः।
शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ 6.69.30 ॥
देवान्तकः समादाय परिघं वज्रभूषणम्।
परिगृह्य गिरीं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ 6.69.31 ॥
महापार्श्वो महाकायो गदामादाय वीर्यवान्।
विरराज गदापाणिः कुबेर इव संयुगे ॥ 6.69.32 ॥
प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः।
सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥ 6.69.33 ॥
तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः।
अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ 6.69.34 ॥
ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः।
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥ 6.69.35 ॥
प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता।
शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥ 6.69.36 ॥
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ 6.69.37 ॥
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ 6.69.38 ॥
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्।
जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥ 6.69.39 ॥
क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा।
रक्षसां सिंहनादैश्च पुस्फोटेव तदाऽम्बरम् ॥ 6.69.40 ॥
तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः।
ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ 6.69.41 ॥
हरयोऽपि महात्मानो ददृशुर्नैर्ऋतं बलम्।
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ॥ 6.69.42 ॥
नीलजीमूतसङ्काशं समुद्यतमहायुधम्।
दीप्तानलपविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ॥ 6.69.43 ॥
समुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः।
अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥ 6.69.44 ॥
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्।
अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ 6.69.45 ॥
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः।
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ 6.69.46 ॥
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः।
रक्षस्सैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥ 6.69.47 ॥
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः।
तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ 6.69.48 ॥
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्।
बाणौघैर्वायमाणाश्च हरयो भीमविक्रमाः ॥ 6.69.49 ॥
सिंहनादान् विनेदुश्च रणे वानरराक्षसाः।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥ 6.69.50 ॥
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्।
केचिद्रथगतान् वीरान् गजवाजिगतानपि ॥ 6.69.51 ॥
निजघ्नुः सहसाऽऽप्लुत्य यातुधानान् प्लवङ्गमाः।
शैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ॥ 6.69.52 ॥
चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः।
राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ 6.69.53 ॥
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः।
अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ 6.69.54 ॥
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः।
ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ 6.69.55 ॥
विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः।
आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ 6.69.56 ॥
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः।
पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ॥ 6.69.57 ॥
वानरान् वानरैरेव जघ्नुस्ते रजनीचराः।
राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ 6.69.58 ॥
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्।
तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ 6.69.59 ॥
निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम्।
सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ॥ 6.69.60 ॥
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः।
रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ 6.69.61 ॥
रथेन च रथं चापि वारणेनैव वारणम् ॥ 6.69.62 ॥
हयेन च हयं केचिन्निजघ्नुर्वानरा रणे।
प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥ 6.69.63 ॥
हरयो राक्षसान् जघ्नुर्द्रुमैश्च बहुशाखिभिः।
तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ 6.69.64 ॥
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः।
राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ॥ 6.69.65 ॥
विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे।
हतैश्च कपिरक्षोबिर्दुर्गमा वसुधाऽभवत् ॥ 6.69.66 ॥
ते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य।
युद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ॥ 6.69.67 ॥
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु।
निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ 6.69.68 ॥
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य।
नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ॥ 6.69.69 ॥
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद।
एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ 6.69.70 ॥
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्।
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ 6.69.71 ॥
स तस्य ददृशो मार्गो मांसशोणितकर्दमः।
पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ 6.69.72 ॥
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः।
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ 6.69.73 ॥
ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः।
ददाह हरिसैन्यानि वनानीव विभावसुः ॥ 6.69.74 ॥
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः।
तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ 6.69.75 ॥
दिक्षु सर्वासु बलवान् विचचार नरान्तकः।
प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ 6.69.76 ॥
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्।
उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥ 6.69.77 ॥
एकेनान्तककल्पेन प्रासेनादित्यतेजसा।
भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ 6.69.78 ॥
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्।
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ 6.69.79 ॥
पततां हरिवीराणां रूपाणि प्रचकाशिरे।
वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ 6.69.80 ॥
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः।
ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ 6.69.81 ॥
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्।
नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ 6.69.82 ॥
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्।
गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ 6.69.83 ॥
अथोवाच महातेजाः सुग्रीवो वानराधिपः।
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ 6.69.84 ॥
गच्छ त्वं राक्षसं वीरो योऽसौ तुरगमास्थितः।
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ 6.69.85 ॥
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः।
अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ॥ 6.69.86 ॥
शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः।
रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ॥ 6.69.87 ॥
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्।
नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ 6.69.88 ॥
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि।
अस्मिन् वज्रसमस्पर्शं प्रासङ्क्षिप ममोरसि ॥ 6.69.89 ॥
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः।
सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥ 6.69.90 ॥
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ 6.69.91 ॥
प्रासं समाविध्य तदाऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज।
स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ 6.69.92 ॥
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्।
तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ॥ 6.69.93 ॥
निमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसन्निकाशः।
स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ॥ 6.69.94 ॥
नरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य।
स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ 6.69.95 ॥
अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्।
मुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिष्मिये च ॥ 6.69.96 ॥
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्।
निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ 6.69.97 ॥
स मुष्टिनिष्पष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः।
नरान्तको भूमितले पपात यथाऽचलो वज्रनिपातभग्नः ॥ 6.69.98 ॥
अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः।
बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥ 6.69.99 ॥
अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम्।
विसिष्मिये सोऽप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ 6.69.100 ॥