०६८ रावणशोकः

कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ 6.68.1 ॥
राजन् स कालसङ्काशः संयुक्तः कालकर्मणा।
विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ 6.68.2 ॥
प्रतपित्वा मुहूर्तं च प्रशान्तो राम तेजसा।
कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ 6.68.3 ॥
निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु।
रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ 6.68.4 ॥
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः।
लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ 6.68.5 ॥
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम्।
रावणः शोकसन्तप्तो मुमोह च पपात च ॥ 6.68.6 ॥
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ।
त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ 6.68.7 ॥
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥ 6.68.8 ॥
ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः।
कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ 6.68.9 ॥
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।
त्वं मां विहाय वै दैवाद्यातोऽसि यमसादनम् ॥ 6.68.10 ॥
मम शल्यमनुद्धत्य बान्धवानां महाबल।
शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ॥ 6.68.11 ॥
इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः।
पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥ 6.68.12 ॥
कथमेवंविधो वीरो देवदानवदर्पहा।
कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ॥ 6.68.13 ॥
यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा।
स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥ 6.68.14 ॥
एते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः।
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ 6.68.15 ॥
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः।
आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ 6.68.16 ॥
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥ 6.68.17 ॥
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ 6.68.18 ॥
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम।
नहि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ 6.68.19 ॥
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।
कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ 6.68.20 ॥
तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।
यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ 6.68.21 ॥
विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः।
विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ 6.68.22 ॥
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।
यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥ 6.68.23 ॥
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्।
न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ 6.68.24 ॥