०६७ कुम्भकर्णवधः

ते निवृत्ता महाकायाः श्रुत्वाऽङ्गदवचस्तदा।
नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ॥ 6.67.1 ॥
समुदीरितवीर्याश्च समारोपितविक्रमाः।
पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ 6.67.2 ॥
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः।
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ 6.67.3 ॥
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च।
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥ 6.67.4 ॥
स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान्।
अर्दयन् सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ॥ 6.67.5 ॥
शतानि सप्त चाष्टौ च सहस्राणि च वानराः।
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ 6.67.6 ॥
परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति।
भक्षयन् भृशसङ्क्रुद्धो गरुडः पन्नगानिव ॥ 6.67.7 ॥
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः।
वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ॥ 6.67.8 ॥
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः।
दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ॥ 6.67.9 ॥
तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः।
तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ॥ 6.67.10 ॥
ममर्दाश्वान् गजांश्चापि रथांश्चैव नगोत्तमः।
तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरेः ॥ 6.67.11 ॥
तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि।
रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ॥ 6.67.12 ॥
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः।
शिरांसि नदतां जह्रुः सहसा भीमनिस्वनाः ॥ 6.67.13 ॥
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान्।
रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् ॥ 6.67.14 ॥
हनुमान् शैलशृङ्गाणि वृक्षांश्च विविधान् बहून्।
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ 6.67.15 ॥
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह।
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ 6.67.16 ॥
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य।
तस्थौ ततोऽस्यापततः पुरस्तान्महीधराग्रं हनुमान् प्रगृह्य ॥ 6.67.17 ॥
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम्।
स चुक्षुभे तेन तदाऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥ 6.67.18 ॥
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम्।
बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ 6.67.19 ॥
स शूलनिर्भिन्नमहाभूजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात्।
ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम् ॥ 6.67.20 ॥
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य।
प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ 6.67.21 ॥
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम्।
प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ 6.67.22 ॥
तमापतन्तं सम्प्रेक्ष्य मुष्टिनाऽभिजघान ह।
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ 6.67.23 ॥
सविस्फुलिङ्गं सज्वालं निपपात महीतले।
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ॥ 6.67.24 ॥
पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ 6.67.25 ॥
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः।
कुम्भकर्णं महाकायं सर्वतोऽभिप्रदुद्रुवुः ॥ 6.67.26 ॥
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे।
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ 6.67.27 ॥
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः।
निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः ॥ 6.67.28 ॥
मुष्टिना शरभं हत्वा जानुना नीलमाहवे।
आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ॥ 6.67.29 ॥
पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम्।
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ॥ 6.67.30 ॥
तेषु वानरमुख्येषु पतितेषु महात्मसु।
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ 6.67.31 ॥
तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः।
समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ 6.67.32 ॥
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा।
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥ 6.67.33 ॥
स वानरसहस्रैस्तैराचितः पर्वतोपमः।
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ 6.67.34 ॥
बाहुभ्यां वानरान् सर्वान् प्रगृह्य सुमहाबलः।
भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥ 6.67.35 ॥
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे।
नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ 6.67.36 ॥
भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः।
बभञ्ज वानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः ॥ 6.67.37 ॥
मांसशोणितसङ्क्लेदां भूमिं कुर्वन् स राक्षसः।
चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥ 6.67.38 ॥
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः।
शूलहस्तो बभौ सङ्ख्ये कुम्भकर्णो महाबलः ॥ 6.67.39 ॥ +++(४)+++
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः।
तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ 6.67.40 ॥ +++(४)+++
ततस्ते वध्यमानास्तु हतयूथा विनायकाः।
वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥ 6.67.41 ॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः।
राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ 6.67.42 ॥
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तसुतात्मजः।
अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ 6.67.43 ॥
शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः।
त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ॥ 6.67.44 ॥
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि।
स तेनाभिहतोऽत्यर्थं गिरिशृङ्गेण मूर्धनि ॥ 6.67.45 ॥
कुम्भकर्णः प्रजज्वाल कोपेन महता तदा।
सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥ 6.67.46 ॥
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान्।
शूलं ससर्ज वै रोषादङ्गदे स महावलः ॥ 6.67.47 ॥
तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः।
लाघवान्मोचयामास बलवान् वानरर्षभः ॥ 6.67.48 ॥
उत्पत्य चैनं सहसा तलेनोरस्यताडयत्।
स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ॥ 6.67.49 ॥
स लब्धसञ्ज्ञो बलवान् मुष्टिमावर्त्त्य राक्षसः।
अपहासेन चिक्षेप विसञ्ज्ञः स पपात ह ॥ 6.67.50 ॥
तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि।
तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ 6.67.51 ॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्।
उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ 6.67.52 ॥
पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः।
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ 6.67.53 ॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम्।
तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥ 6.67.54 ॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान्।
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ 6.67.55 ॥
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्।
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ 6.67.56 ॥
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि।
सह स्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥ 6.67.57 ॥
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्।
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ 6.67.58 ॥
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजस्सुतः।
श्रुतपौरुषसम्पन्नः कस्माद्गर्जसि वानर ॥ 6.67.59 ॥
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच।
तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसन्निभेन ॥ 6.67.60 ॥
तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले।
ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ॥ 6.67.61 ॥
स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम्।
व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ॥ 6.67.62 ॥
तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम्।
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥ 6.67.63 ॥
कृतं भारसहस्रस्य शूलं कालायसं महत्।
बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥ 6.67.64 ॥
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी।
हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥ 6.67.65 ॥
सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः।
मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ॥ 6.67.66 ॥
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा।
उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ 6.67.67 ॥
स शैलशृङ्गाभिहतो विसञ्ज्ञः पपात भूमौ युधि वानरेन्द्रः।
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ॥ 6.67.68 ॥
तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम्।
जहार सुग्रीवमभिप्रगृह्य यथाऽनिलो मेघमतिप्रचण्डः ॥ 6.67.69 ॥
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः।
रराज मेरुप्रतिमानरूपो मेरुर्यथाऽभ्युच्छ्रितघोरशृङ्गः ॥ 6.67.70 ॥
ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः।
शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ॥ 6.67.71 ॥
ततस् तम् आदाय तदा स मेने
हरीन्द्रम् इन्द्रोपमम् इन्द्रवीर्यः।
अस्मिन् हृते सर्वमिदं हृतं स्यात्
सराघवं सैन्यम् इतीन्द्रशत्रुः ॥ 6.67.72 ॥+++(४)+++
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः।
कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ 6.67.73 ॥
हनुमांश्चिन्तयामास मतिमान् मारुतात्मजः।
एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ 6.67.74 ॥
यद्वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा।
भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ॥ 6.67.75 ॥
मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे।
विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ 6.67.76 ॥
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः।
गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः ॥ 6.67.77 ॥
मन्ये न तावदात्मानं बुद्ध्यते वानराधिपः।
शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ 6.67.78 ॥
अयं मुहूर्तात् सुग्रीवो लब्धसञ्ज्ञो महाहवे।
आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ॥ 6.67.79 ॥
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः।
अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ॥ 6.67.80 ॥
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु।
भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ 6.67.81 ॥
इत्येवं चिन्तयित्वा तु हनुमान् मारुतात्मजः।
भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ 6.67.82 ॥
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम्।
विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ 6.67.83 ॥
लाजगन्धोदवर्षैस्तु सिच्यमानः शनैःशनैः।
राजमार्गस्य शीतत्वात् सञ्ज्ञामाप महाबलः ॥ 6.67.84 ॥
ततः स सञ्ज्ञामुपलभ्य कृच्छ्राद्वलीयसस्तस्य भुजान्तरस्थः।
अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥ 6.67.85 ॥
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य।
तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥ 6.67.86 ॥
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम्।
खरैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ॥ 6.67.87 ॥
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च।
रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ 6.67.88 ॥
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः।
जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥ 6.67.89 ॥
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः।
रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥ 6.67.90 ॥
शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः।
युद्धायाभिमुखो भूयो मनश्चके महाबलः ॥ 6.67.91 ॥
अमर्षाच्छोणितोद्गरी शुशुभे रावणानुजः।
नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ॥ 6.67.92 ॥
गते तु तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः।
अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥ 6.67.93 ॥
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्।
बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ॥ 6.67.94 ॥
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम्।
चखाद रक्षांसि हरीन् पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः ॥ 6.67.95 ॥
यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ॥ 6.67.96 ॥
एकं द्वे त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः।
समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥ 6.67.97 ॥
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः।
वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥ 6.67.98 ॥
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ॥ 6.67.99 ॥
कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥ 6.67.100 ॥
शतानि सप्त चाष्टौ च विंशत्त्रिंशत्तथैव च।
सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥ 6.67.101 ॥
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः।
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ॥ 6.67.102 ॥
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्।
निचखानाददे बाणान् विससर्ज च लक्ष्मणः ॥ 6.67.103 ॥
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः।
राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ 6.67.104 ॥
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्।
कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥ 6.67.105 ॥
तस्य रामेण विद्धस्य सहसाऽभिप्रधावतः।
अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ 6.67.106 ॥
रामास्त्रविद्धो घोरं वै नदन् राक्षसपुङ्गवः।
अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ॥ 6.67.107 ॥
हस्ताच्चापि परिभ्रष्टा पपातोर्व्यां महागदा।
आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले ॥ 6.67.108 ॥
स निरायुधमात्मानं यदा मेने महाबलः।
मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥ 6.67.109 ॥
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः।
रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥ 6.67.110 ॥
स तीर्वेण च कोपेन रुधिरेण च मूर्च्छितः।
वानरान् राक्षसानृक्षान् खादन् विपरिधावति ॥ 6.67.111 ॥
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः।
चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥ 6.67.112 ॥
अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः।
शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ॥ 6.67.113 ॥
तन्मेरुशिखराकारं द्योतमानमिव श्रिया।
द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥ 6.67.114 ॥
तस्मिन् काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत्।
कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ॥ 6.67.115 ॥
नैवायं वानरान् राजन्नापि जानाति राक्षसान्।
मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ॥ 6.67.116 ॥
साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः।
यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ 6.67.117 ॥
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः।
प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ॥ 6.67.118 ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।
ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ॥ 6.67.119 ॥
कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः।
व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान् ॥ 6.67.120 ॥
तान् दृष्ट्वा निर्धुतान् रामो दुष्टोऽयमिति राक्षसः।
सुमुत्पपात वेगेन धनुरुत्तममाददे ॥ 6.67.121 ॥
राघवो राक्षसं रोषादभिदुद्राव वेगितः।
यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ॥ 6.67.122 ॥
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम्।
हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥ 6.67.123 ॥
स वानरगणैस्तैस्तु वृतः परमदुर्जयः।
लक्ष्मणानुचरो रामः सम्प्रतस्थे महावलः ॥ 6.67.124 ॥
स ददर्श महात्मानं किरीटिनमरिन्दमम्।
शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ 6.67.125 ॥
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम्।
मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ॥ 6.67.126 ॥
विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम्।
स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥ 6.67.127 ॥
जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम्।
मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥ 6.67.128 ॥
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्।
विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ 6.67.129 ॥
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः।
अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ 6.67.130 ॥
ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम्।
तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥ 6.67.131 ॥
आगच्छ रक्षोधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः।
अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः ॥ 6.67.132 ॥
रामोऽयमिति विज्ञाय जहास विकृतस्वनम्।
अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ॥ 6.67.133 ॥
पातयन्निव सर्वेषां हृदयानि वनौकसाम् ॥ 6.67.134 ॥
प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्।
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ॥ 6.67.135 ॥
नाहं विराधो विज्ञेयो न कबन्धः खरो न च।
न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ 6.67.136 ॥
पश्य मे मुद्गरं घोरं सर्वकालायसं महत्।
अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ 6.67.137 ॥
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि।
स्वल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ॥ 6.67.138 ॥
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु।
ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ 6.67.139 ॥
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्।
तैराहतो वज्रसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥ 6.67.140 ॥
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च।
ते कुम्भकर्णस्य तदा शरीरे वज्रोपमा न व्यथयाम्प्रचक्रुः ॥ 6.67.141 ॥
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः।
जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ 6.67.142 ॥
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्।
विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ 6.67.143 ॥
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय।
समुद्गरं तेन जघान बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥ 6.67.144 ॥
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः।
पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहनीं च ॥ 6.67.145 ॥
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः।
प्रवेपिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् ॥ 6.67.146 ॥
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः।
उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ 6.67.147 ॥
स तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम्।
ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥ 6.67.148 ॥
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः।
विवेष्टमानोऽभिजघान वृक्षान् शैलान् शिला वानरराक्षसांश्च ॥ 6.67.149 ॥
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्।
द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ 6.67.150 ॥
तौ तस्य पादौ प्रदिशो दिशश्च गिरीन् गुहाश्चैव महार्णवं च।
लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥ 6.67.151 ॥
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्।
दुद्राव रामं सहसाऽभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ 6.67.152 ॥
अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः।
स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ॥ 6.67.153 ॥
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्।
अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ॥ 6.67.154 ॥
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्।
महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ 6.67.155 ॥
स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन्।
सधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ॥ 6.67.156 ॥
स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुकुण्डलम्।
चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरन्दरः ॥ 6.67.157 ॥
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत्।
आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ 6.67.158 ॥
तद्रामबाणाभिहतं पपात रक्षश्शिरःपर्वतसन्निकाशम्।
बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ 6.67.159 ॥
न्यपतत् कुम्भकर्णोऽथ स्वकायेन निपातयन्।
प्लवङ्गमानां कोट्यश्च परितः सम्प्रधावताम् ॥ 6.67.160 ॥
तच्चाति कायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात।
ग्राहान् वरान् मीनवरान् भुजङ्गान् ममर्द भूमिं च तदा विवेश ॥ 6.67.161 ॥
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे।
चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ 6.67.162 ॥
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः।
सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ॥ 6.67.163 ॥
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः।
विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ॥ 6.67.164 ॥
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः।
तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ॥ 6.67.165 ॥
प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः।
अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ 6.67.166 ॥
स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम्।
ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ 6.67.167 ॥