स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्।
निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ 6.66.1 ॥
स ननाद महानादं समुद्रमभिनादयन्।
जनयन्निव निर्घातान् विधमन्निव पर्वतान् ॥ 6.66.2 ॥
तमवध्यं मधवता यमेन वरुणेन वा।
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ 6.66.3 ॥
तांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्।
नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ 6.66.4 ॥
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ 6.66.5 ॥
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ।
नालं युद्धाय वै रक्षो महतीयं बिभीषिका ॥ 6.66.6 ॥
महतीमुत्थितामेनां राक्षसानां बिभीषिकाम्।
विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ 6.66.7 ॥
कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः।
वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ॥ 6.66.8 ॥
ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ 6.66.9 ॥
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः।
पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥ 6.66.10 ॥
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ 6.66.11 ॥
सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ 6.66.12 ॥
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः।
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ 6.66.13 ॥
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ 6.66.14 ॥
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः।
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ 6.66.15 ॥
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ 6.66.16 ॥
ते स्थलानि तथा निम्नं विषण्णवदना भयात्।
ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥ 6.66.17 ॥
[केचिद्भूमौ निपतिताः केचित् सुप्ता मृता इव।] तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् ॥ 6.66.18 ॥
भग्नानां वो न पश्यामि परिगम्य महीमिमाम्।
स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥ 6.66.19 ॥
निरायुधानां द्रवतामसङ्गगतिपौरुषाः।
दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ 6.66.20 ॥
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च।
क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ 6.66.21 ॥
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ 6.66.22 ॥
विकत्थनानि वो यानि तदा वै जनसंसदि।
तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ 6.66.23 ॥
भीरुप्रवादाः श्रूयन्ते यस्तु जीविति धिक्कृतः।
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ 6.66.24 ॥
शयामहेऽथ निहताः पृथिव्यामल्पजीविताः।
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ 6.66.25 ॥
सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे।
जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥ 6.66.26 ॥
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति।
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ 6.66.27 ॥
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्।
एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ 6.66.28 ॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्।
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ 6.66.29 ॥
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा।
न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ 6.66.30 ॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः।
भीमं मीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ 6.66.31 ॥
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः।
सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ 6.66.32 ॥
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता।
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ 6.66.33 ॥
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ 6.66.34 ॥