०६५ कुम्भकर्णेन महोदरनिन्दा

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्।
अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ 6.65.1 ॥
सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः।
रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ 6.65.2 ॥
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः।
पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ॥ 6.65.3 ॥
न मर्षयति चात्मानं सम्भावयति नात्मना।
अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ 6.65.4 ॥
विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम्।
शृण्वता सादितमिदं त्वद्विधानां महोदर ॥ 6.65.5 ॥
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः।
राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ॥ 6.65.6 ॥
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्।
राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ 6.65.7 ॥
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये।
दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥ 6.65.8 ॥
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः।
प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ॥ 6.65.9 ॥
महोदरोऽयं रामात्तु परित्रस्तो न संशयः।
न हि रोचयते तात युद्धं युद्धविशारद ॥ 6.65.10 ॥
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च।
गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥ 6.65.11 ॥
तस्मात्तु भयनाशार्थं भवान् सम्बोधितो मया।
अयं हि कालः सुहृदां राक्षसानामरिन्दम ॥ 6.65.12 ॥
तद्गच्छ शूलमादाय पाशहस्त इवान्तकः।
वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥ 6.65.13 ॥
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः।
रामलक्ष्मणोश्चापि हृदये प्रस्फुटिष्यतः ॥ 6.65.14 ॥
एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम्।
पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ 6.65.15 ॥
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्।
बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ 6.65.16 ॥
इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ॥ 6.65.17 ॥
राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः।
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ॥ 6.65.18 ॥
सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्।
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ॥ 6.65.19 ॥
देवदानवगन्धर्वयक्षकिन्नरसूदनम्।
रक्तमाल्यं महाधामस्वतश्चोद्गतपावकम् ॥ 6.65.20 ॥
आदाय निशितं शूलं शत्रुशोणितरञ्जितम्।
कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ॥ 6.65.21 ॥
अद्य तान् क्षुभितान् क्रुद्धो भक्षयिष्यामि वानरान्।
कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ 6.65.22 ॥
सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः।
वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ॥ 6.65.23 ॥
तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज।
रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥ 6.65.24 ॥
अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्।
आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥ 6.65.25 ॥
अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च।
हारं च शशिसङ्काशमाबबन्ध महात्मनः ॥ 6.65.26 ॥
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः।
श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले ॥ 6.65.27 ॥
काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः।
कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥ 6.65.28 ॥
श्रोणीसूत्रेण महता मेचकेन व्यराजत।
अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥ 6.65.29 ॥
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा।
आभध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः ॥ 6.65.30 ॥
सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः।
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ 6.65.31 ॥
भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम्।
प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः ॥ 6.65.32 ॥
निष्पतन्तं महाकायं महानादं महाबलम्।
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥ 6.65.33 ॥
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः।
तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ॥ 6.65.34 ॥
अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ 6.65.35 ॥
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः।
अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ 6.65.36 ॥
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः।
मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥ 6.65.37 ॥
पदातयश्च बहवो महानादा महाबलाः।
अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ 6.65.38 ॥
रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः।
शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥ 6.65.39 ॥
बहुव्यामांश्च परिघान् गदाश्च मुसलानि च।
तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥ 6.65.40 ॥
अथान्यद्वपुरादाय दारुणं रोमहर्षणम्।
निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ 6.65.41 ॥
धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः।
रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥ 6.65.42 ॥
सन्निपत्य च रक्षांसि दग्धशैलोपमो महान्।
कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ 6.65.43 ॥
अद्य वानरमुख्यानां तानि यूथानि भागशः।
निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ॥ 6.65.44 ॥
नापराध्यन्ति मे कामं वानरा वनचारिणः।
जातिरस्माद्विधानां सा पुरोद्यानविभूषणम् ॥ 6.65.45 ॥
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः।
हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥ 6.65.46 ॥
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः।
नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ 6.65.47 ॥
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः।
बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ 6.65.48 ॥
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः।
ससागरवना चैव वसुधा समकम्पत ॥ 6.65.49 ॥
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः।
मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥ 6.65.50 ॥
निष्पपात च मालेव गृध्रोऽस्य पथि गच्छतः।
प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ॥ 6.65.51 ॥
निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना।
आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥ 6.65.52 ॥
अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्।
निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ 6.65.53 ॥
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः।
ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ 6.65.54 ॥
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्।
वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ 6.65.55 ॥
तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्।
स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद् घनाभः ॥ 6.65.56 ॥
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य।
पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः ॥ 6.65.57 ॥
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा।
कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते ॥ 6.65.58 ॥