०६४ रावण-कुम्भकर्णसंवादः

तदुक्तमतिकायस्य बलिनो बाहुशालिनः।
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ 6.64.1 ॥
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः।
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ 6.64.2 ॥
न हि राजा न जानीते कुम्भकर्ण नयानयौ।
त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥ 6.64.3 ॥
स्थानं वृद्धिं च हानिं च देशकालविभागवित्।
आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥ 6.64.4 ॥
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना।
अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥ 6.64.5 ॥
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्।
अनुबोद्धुं स्वभावे तान्नहि लक्षणमस्ति ते ॥ 6.64.6 ॥
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम्।
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ 6.64.7 ॥
निश्श्रेयसफलावेव धर्मार्थावितरावपि।
अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ 6.64.8 ॥
एहलौकिकपारत्रं कर्म पुम्भिर्निषेव्यते।
कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥ 6.64.9 ॥
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः।
शत्रौ हि साहसं यत् स्यात् किमिवात्रापनीयताम् ॥ 6.64.10 ॥
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया।
तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥ 6.64.11 ॥
येन पूर्वं जनस्थाने बहवोऽतिबला हताः।
राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ 6.64.12 ॥
ये पुरा निर्जितास्तेन जनस्थाने महौजसः।
राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि ॥ 6.64.13 ॥
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम्।
सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ॥ 6.64.14 ॥
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्।
कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ 6.64.15 ॥
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने।
एकस्य गमनं तत्र नहि मे रोचते भृशम् ॥ 6.64.16 ॥
हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा।
निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ॥ 6.64.17 ॥
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम।
कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ 6.64.18 ॥
एवमुक्त्वा तु संरब्धः कुम्भकर्णं महोदरः।
उवाच रक्षसां मध्ये रावणं लोकरावणम् ॥ 6.64.19 ॥
लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि।
यदीच्छसि तदा सीता वशगा ते भविष्यति ॥ 6.64.20 ॥
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः।
रुचिरश्चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु ॥ 6.64.21 ॥
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः।
पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥ 6.64.22 ॥
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः।
जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ 6.64.23 ॥
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः।
ततस्तदभिपत्स्यामो मनसा यत् समीक्षितम् ॥ 6.64.24 ॥
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः।
विदार्यं स्वतनुं बाणै रामनामाङ्कितैः शितैः ॥ 6.64.25 ॥
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः।
तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ॥ 6.64.26 ॥
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव।
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ 6.64.27 ॥
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम।
भोगांश्च परिवारांश्च कामांश्च वसु दापय ॥ 6.64.28 ॥
ततो माल्यानि वासांसि वीराणामनुलेपनम्।
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥ 6.64.29 ॥
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते।
भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ॥ 6.64.30 ॥
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय।
धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ 6.64.31 ॥
अनयोपधया राजन् भयशोकानुबन्धया।
अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ 6.64.32 ॥
रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा।
नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ 6.64.33 ॥
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता।
त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥ 6.64.34 ॥
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः।
इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ 6.64.35 ॥
अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् नराधिपः।
यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ 6.64.36 ॥