तस्य राक्षसराजस्य निशम्य परिदेवितम्।
कुम्भकर्णो बभाषेदं वचनं प्रजहास च ॥ 6.63.1 ॥
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये।
हितेष्वनभिरक्तेन सोऽयमासादितस्त्वया ॥ 6.63.2 ॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ 6.63.3 ॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम्।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥ 6.63.4 ॥
यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः।
पूर्वं चापरकार्याणि न स वेद नयानयौ ॥ 6.63.5 ॥
देशकालविहीनानि कर्माणि विपरीतवत्।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ 6.63.6 ॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति।
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ 6.63.7 ॥
यथागमं च यो राजा समयं विचिकीर्षति।
बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ॥ 6.63.8 ॥
धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ 6.63.9 ॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ 6.63.10 ॥
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥ 6.63.11 ॥
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह।
निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ॥ 6.63.12 ॥
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः।
राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ॥ 6.63.13 ॥
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ 6.63.14 ॥
अशास्त्रविदुषां तेषां न कार्यमहितं वचः।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ 6.63.15 ॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ 6.63.16 ॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ 6.63.17 ॥
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये।
व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ 6.63.18 ॥
चपलस्येह कृत्यानि सहसानुप्रधावतः।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ॥ 6.63.19 ॥
यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति।
अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ॥ 6.63.20 ॥
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च।
तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ॥ 6.63.21 ॥
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्।
भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ॥ 6.63.22 ॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि।
किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ॥ 6.63.23 ॥
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा।
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ॥ 6.63.24 ॥
अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम्।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ 6.63.25 ॥
यदि खल्वस्ति मे स्नेहो विक्रमं वाऽवगच्छसि।
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥ 6.63.26 ॥
स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते।
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ॥ 6.63.27 ॥
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम्।
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥ 6.63.28 ॥
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्।
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥ 6.63.29 ॥
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते।
रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥ 6.63.30 ॥
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव।
तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥ 6.63.31 ॥
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव।
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ 6.63.32 ॥
सदृशं यत्तु कालेऽस्मिन् कर्तुं स्निग्धेन बन्धुना।
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ 6.63.33 ॥
अद्य पश्य महाबाहो मया समरमूर्धनि।
हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ॥ 6.63.34 ॥
अद्य रामस्य तद् दृष्ट्वा मयाऽऽनीतं रणाच्छिरः।
सुखी भव महाबाहो सीता भवतु दुःखिता ॥ 6.63.35 ॥
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम्।
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ 6.63.36 ॥
अद्य शोकपरीतानां स्वबन्धुवधकारणात्।
शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ॥ 6.63.37 ॥
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम्।
विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ॥ 6.63.38 ॥
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ 6.63.39 ॥
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः।
नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ॥ 6.63.40 ॥
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप।
न परः प्रेषणीयस्ते युद्धायातुलविक्रम ॥ 6.63.41 ॥
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ 6.63.42 ॥
यदि शक्रो यदि यमो यदि पावकमारुतौ।
तानहं योधयिष्यामि कुबेरवरुणावपि ॥ 6.63.43 ॥
गिरिमात्रशरीरस्य शितशूलधरस्य मे।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ॥ 6.63.44 ॥
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून्।
न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ॥ 6.63.45 ॥
नैव शक्त्या न गदया नासिना निशितैः शरैः।
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥ 6.63.46 ॥
यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यते।
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ॥ 6.63.47 ॥
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति।
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥ 6.63.48 ॥
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्।
हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ॥ 6.63.49 ॥
हरींश्चापि हनिष्यामि संयुगे समवस्थितान्।
असाधारणमिच्छामि तव दातुं महद्यशः ॥ 6.63.50 ॥
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ॥ 6.63.51 ॥
यमं च शमयिष्यामि भक्षयिष्यामि पावकम्।
आदित्यं पातयिष्यामि सनक्षत्रं महीतले ॥ 6.63.52 ॥
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम्।
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ॥ 6.63.53 ॥
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम्।
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ॥ 6.63.54 ॥
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥ 6.63.55 ॥
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि।
निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥ 6.63.56 ॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः।
मयाऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ 6.63.57 ॥